SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [शिशत्सति] 'शलं शातने' (९६७) शद् । शत्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) “शद्" द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक् (४।१।४४) दलोपः । 'सन्यस्य' (४१५९) इ । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । [मुमूर्षति] 'मृत् प्राणि(ण)त्यागे' (१३३३) मृ । मर्तृमिच्छति । 'तुमर्हादि०' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । ‘ओष्ठ्यादुर्' (४।४।११७) उर् । 'सन्-यङश्च' (४।१।३) मुर्द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्तः तिव् । कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । [अनुचिकीर्षति] 'डुकंग करणे' (८८८) कृ, अनुपूर्व० । अनुकर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । ‘स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां क्डितीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४।१।३) “किर्" द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । ‘क-डश्च-ञ्' (४।१।४६) क० → च० । 'भवादे मिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त० तिव् । [पराचिकीर्षति] परा । कृ । पराकर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । अग्रे पूर्ववत् । [तितिक्षते] 'तिजि क्षमा-निशानयोः' (६६७) तिज् । 'गुप्-तिजो गर्हा-क्षान्तौ सन्' (३।४।५) सन्प्र० → स । सन्यडश्च' (४।१।३) "तिज्'' द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलोपः । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । क-षसंयोगे क्ष । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः । [जुगुप्सते] 'गुपि गोपन-कुत्सनयोः' (७६३) गुप् । 'गुप्-तिजो गर्हा-क्षान्तौ सन्' (३।४।५) सन्प्र० । 'सन्-यडश्च' (४।१।३) "गुप्' द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलोपः । 'ग-होर्जः' (४।१।४०) ग० → ज० । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [मीमांसते] 'मानि पूजायाम्' (७४९) मान् । 'शान्-दान्-मान्-बधान्निशाना-ऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः' (३।४।७) सन् । 'सन्-यङश्च' (४।१३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलोपः । ‘ह्रस्वः' (४।१।३९) ह्रस्वत । 'सन्यस्य' (४।११५९) इ । 'शान-दान्-मान्-वधान्निशाना-5ऽर्जव०' (३।४।७) दीर्घः ई । 'शिड्-हेऽनुस्वारः' (१1३।४०) अनुस्वारः । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्या०' (२।१।११३) अलोपः । [तितिक्षयति तितिक्षन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'अतः' (४।३।८२) अकारलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३19) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [मीमांसयति मीमांसन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'अतः' (४।३।८२) अकारलोपः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । तेजयति] 'तिजि क्षमा-निशानयोः' (६६७) तिज् । तेजमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गुणोऽक्ङिति' (४।३19) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy