________________
१४४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
चैत्रं प्रति शुश्रूषते] श्रोतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन् । शेषं पूर्ववत् । प्रतिना सम्बन्धाभावात् प्रतिषेधो न भवति ।।छ।।
स्मृ-दृशः ।।३।३।७२।। [स्मृदृशः] स्मृश्च दृश् च = स्मृदृश् तस्मात् ।
[सूस्मूर्षते पूर्ववृत्तम्] ‘स्मृ चिन्तायाम्' (१८ ) स्मृ । स्मर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । ‘स्वर-हन-गमोः' सनि धुटि' (४।१।१०४) दीर्घः । ‘ओष्ठ्यादुर्' (४।४।११७) उर् आदेशः । 'सन्-यडश्च' (४।१।३) स्मुर्द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था० (२।३।१५) षत्वम् । वर्त्त० ते । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनोऽनिट' (४।३।३३) किद्वत् ।
[दिदृक्षते देवम्] 'दृशुं प्रेक्षणे' (४९५) दृश् । द्रष्टुमिच्छति । 'तुमर्हादि०' (३।४।२१) सन्प० । ‘सन्-यङश्च' (४।१३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३९) ऋ० → अ० । 'सन्यस्य' (४।११५९) इ । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-वस्च-परिव्राजः शः षः' (२।१८७) श० → ष० । 'प-ढोः कस्सि' (२।१।६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । क-षसंयोगे क्ष । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'उपान्त्ये' (४।३।३४) सन् किद्वत् ।।छ।।
शको जिज्ञासायाम् ।।३।३।७३ ।।
[शकः] शक् पञ्चमी इसि ।
[जिज्ञासायाम्] 'ज्ञांश अवबोधने' (१५४०) ज्ञा । ज्ञातुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१३) ज्ञा सउं द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'इस्वः' (४।१।३९) ह्रस्वत् । ‘सन्यस्य' (४।१५९) इ । जिज्ञासते = जिज्ञासा । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'अतः' (४।३।८२) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ, तस्याम् = जिज्ञासायाम् । सप्तमी डि | 'आपो डितां यै-यास-यास-याम्' (१।४।१७) याम् ।
[विद्याः शिक्षते] 'शक्लृट् शक्तौ' (१३००) शक् । शक्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । 'रभलभ-शक-पत-पदामिः' (४।१।२१) इ० । 'नाम्यन्तस्था०' (२।३।१५) प० । क-षसंयोगे क्ष० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । विद्यां ज्ञातुं शक्नुयामितीच्छतीत्यर्थः ।
[शिक्षति] शक् । शक्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । ‘रभ-लभ-शक-पत-पदामिः' (४।१।२१) इ० ।
[शिक्षांचक्रे] शिक्ष । परोक्षा ए । 'धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति०' (३।४।४६) ए० → आम्० । 'डुकंग करणे' (८८८) कृ । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "कृ" द्विवचनम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-ङश्च-ज्' (४।१।४६) क० → च० । 'इवर्णादे० ' (१।२।२१) रत् ।।छ।।
प्राग्वत् ।।३।३।७४।। [प्राग्वत् प्रागिव । ‘स्यादेरिवे' (७।१।५२) वत्प्र० । 'च-जः क-गम्' (२।१।८६) च० → क० । 'धुटस्तृतीयः' (२।१।७६) क० → ग० ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org