________________
१४२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[तिष्ठते कन्या छात्रेभ्यः] छात्र चतुर्थी भ्यस् । 'श्लाघ-हनु-स्था-शपा प्रयोज्ये' (२१२१६०) इति चतुर्थी ।
[तिष्ठते वृषली ग्राम्येभ्यः] ग्राम । ग्रामे भवाः । ‘ग्रामादीनञ् च' (६।३।९) यप्र० । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः ।
["संशय्य कर्णादिषु तिष्ठते यः"-किराते] सम् 'शीक स्वप्ने' (११०५) शी । संशयनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप० → त्वा । ‘अनञः क्त्वो यप्' (३।२।१५४) यप् → य । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । कर्णादिस्थेयोपदिष्टं निर्णयतीत्यर्थः ।।छ।।
प्रतिज्ञायाम् ।।३।३।६५।। [प्रतिज्ञायाम्] प्रति ‘ज्ञांश् अववोधने' (१५४०) ज्ञा । प्रतिज्ञानम् । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'आत्' (२।४।१८) आप्प्र० → आ, तस्याम् । 'आपो डितां यै-यास्यास-याम्' (१।४।१७) याम् ।
[नित्यं शब्दं आतिष्ठते शब्दं नित्यत्वेनाभ्युपगच्छति ।
योगविभाग उत्तरार्थः ।।छ।।
समो गिरः ।।३।३।६६।।
[समः] सम् पञ्चमी डसि । [गिरः] गिर पञ्चमी डसि !
[स्याद्वादं संगिरते] स्याद्वाद द्वितीया अम् । सम् 'गृत् निगरणे' (१३३५) गृ । वर्त्त० ते । 'तुदादे: शः' (३४८१) शप्र० → अ । 'ऋतां विडतीर्' (४।४।११६) इर् । प्रतिजानीते इत्यर्थः ।
गिर इति निर्देशाद् गृणातेर्न स्यात् ॥छ।।
अवात् ।।३।३।६७।।
[अवात् अव पञ्चमी इसि ।
[अवगिरते] 'गृत् निगरणे' (१३३५) गृ, अवपूर्व० । वर्त्त० ते । 'तुदादेः शः' (३।४।८१) शप० → अ । 'ऋतां विडतीर्' (४।४।११६) इर् ।
पृथग्योगात् प्रतिज्ञायामिति निवृत्तम् । छ।।
निहनवे ज्ञः ।।३।३।६८।।
[निहवे] निहव सप्तमी ङि |
[ज्ञः] ज्ञा पञ्चमी' डसि । 'लुगाऽऽतोऽनापः' (२११।१०७) आलोपः । [शतमपजानीते] शत द्वितीया अम् । अप ‘ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्त्त० ते । 'क्यादेः' (३।४।७९)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org