SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ॥ [कापेयम् ] कपि । कपेर्भावः । 'कपि ज्ञातेरेयण्' (७।१।६५) एयण्प्र० एय । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । द्वितीया अम् । मित्रतया मित्रं वा कर्तुमाचरणं मैत्री, सा उपस्थानस्य आराधनस्य हेतुः फलं वा [रथिकानुपतिष्ठते] रथ । रथेन चरति । 'नौ- द्विस्वरादिकः' (६।४।१० ) इकप्र० (?) । ('पर्पादेरिकट्' (६।४।१२ ) इकट्प्र० इक ।) तान् उपतिष्ठते, मैत्र्या हेतुना फलेन वाऽऽराधयतीत्यर्थः । [ऐन्द्रया गार्हपत्यमुपतिष्ठते ] इन्द्र । इन्द्रो देवताऽस्याः सा । 'देवता' ( ६ | २|१०१) अणुप्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलोपः । 'अणञेयेकण्०' (२।४।२०) डी 1 तृतीया य, तया = करणभूतया । गृहपति । गृहपतिना संयुक्तः । हृद्य-पद्य तुल्य-मूल्य- वश्य-पथ्य-वयस्य- धेनुष्या-गार्हपत्य - जन्य-धर्म्यम्' (७19199) गार्हपत्यनिपातः । द्वितीया अम् । [ सावित्र्या सूर्यमुपतिष्ठते] सवितृ । सविता देवताऽस्याः सा । 'देवता' (६।२।१०१) अणुप्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धि: । 'अणञेयेकण्०' (२।४।२०) डी, तया = करणभूतया, सूर्यमुपतिष्ठते - आराधयतीत्यर्थः ॥ छ। वा लिप्सायाम् || ३ | ३ |६१ ।। [वा ] वा प्रथमा सि । [ लिप्सायाम् ] 'डुलभष् प्राप्तौ (७८६) लभ् । लब्धुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० → स । 'रभ लभ - शक-पत-पदामिः ' (४।१।२१) अस्य इ: । लिप्सनं लिप्सा । 'शंसि-प्रत्ययात्' (५|३|१०५) अप्र० । ‘आत्’ (२।४।१८) आप्प्र० आ तस्याम् = लिप्सायाम् । 'आपो डितां ये-यास् - यास्याम् ' (१।४।१७) याम् । दातृकुलम् । द्वितीया अम् । [भिक्षुको दातृकुलमुपतिष्ठति उपतिष्ठते वा] भिक्षुक प्रथमा सि । दातुः कुलं उपतिष्ठते = भिक्षां लभेयेत्यर्थः ॥ छ || Jain Education Intemational उदोऽनूर्ध्वे || ३ | ३ |६२ ॥ [उदः ] उद् पञ्चमी ङसि । [अनूर्ध्वेहे] 'ईहि चेष्टायाम्' (८५७ ) ई । ईहनमीहः । ' भावा - ऽकर्त्री' ( ५।३।१८) घञ्प्र० अ । न ऊर्ध्वोऽनूर्ध्वः । ‘अन् स्वरे' ( ३।२।१२९ ) अन् । अनूर्ध्वश्चासौ ईहश्च = अनूर्ध्वहस्तस्मिन् । [मुक्ताबुत्तिष्ठते] मुक्ति सप्तमी ङि । 'ङि' (१।४।२५) ङि डौ । उत्तिष्ठते [सेनोत्तिष्ठति] सेनोत्तिष्ठति उत्पद्यते इत्यर्थः ॥ छ। [ज्ञीप्सास्थेये] ज्ञीप्सा च स्थेयश्च = १४१ = सं-वि-प्रा-वात् || ३ | ३ |६३ ।। [ संविप्राऽवात् ] सम् च विश्च प्रश्च अवश्च = संविप्राऽवम्, तस्मात् । पृथग्योगादनूर्ध्वेह इति निवृत्तम् ||छ || ज्ञीप्सा - स्थेये || ३ | ३ |६४ ।। ज्ञीप्सास्थेयम्, तस्मिन् । For Private & Personal Use Only = मुक्त्यर्थं चेष्टते इत्यर्थः । www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy