________________
१४०
सं-नि-वेः ||३ | ३१५७॥
=
[संनिवे:] सम् च निश्च विश्व
संनिविस्तस्मात् ।
ह्वः स्पर्धे (३|३|५६) सं-नि-वे: इत्येकयोगाकरणं स्पर्ध इति निवृत्त्यर्थः ॥ छ ||
उपात् || ३ | ३ |५८ ॥
=
[ उपात्] उप पञ्चमी ङसि ।
[उपह्वयते] ह्वे, उपपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'एदैतोऽयाय् ' (१।२।२३) अय् । छ । ।
यमः स्वीकारे || ३ | ३ |५९ ॥
[ यमः ] यम् पञ्चमी इसि ।
[स्वीकारे] अस्वस्य स्वस्य करणं = स्वीकारः । ' कृ-भ्वस्तिभ्यां कर्मकर्तृभ्यां ० ' ( ७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याSनव्ययस्य' (४।३1999 ) ई । स्वीक्रियते = स्वीकारः । भावा- Sकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । 'नामिनोऽकलिहले ः ' ( ४ | ३ |५१) वृद्धि: आर्, तस्मिन् स्वीकारे ।
Jain Education International
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[कन्यामुपयच्छते] उप 'यमूं उपरमे' (३८६) यम् । कर्न० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छः ' (४।२।१०६) म० छ० । 'स्वरेभ्यः' (१।३।३०) स्य द्वित्वम् । 'अघोषे प्रथमोऽशिट : ' (१|३|५०) छ० वरयतीत्यर्थः ।
च०,
[ उपायंस्त महास्त्राणि] उप-यम् । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'शिङ्- हेऽनुस्वारः' (१।३।४०) अनुस्वारः । ‘अड् धातोरादि०' (४।४।२९) अट् । अनुगृह्णातीत्यर्थः । महत्- अस्त्र । महान्ति च तानि अस्त्राणि च । 'जातीयैकार्थेऽच्चे:' ( ३।२।७०) डा० आ । 'डित्यन्त्यस्वरादेः ' (२।१।११४) अतूलोपः । द्वितीया शस् । 'नपुंसकस्य शि: ' (१।४।५५ ) शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । ' रपृवर्णान्नो ण० ' (२।३।६३) न० ० ॥ छ ॥
देवाऽर्चा- मैत्री-सङ्गम-पथिकर्तृक-मन्त्रकरणे स्थः ||३ | ३ |६०||
[देवाऽर्चामैत्रीसङ्गमपथिकर्तृकमन्त्रकरणे] देवानामर्चा देवार्चा । मित्रस्य इमा मैत्री | 'तस्येदम्' (६।३।१६०) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धि : ऐ । 'अवर्णेवर्णस्य' ( ७१४।६८) अलोपः । 'अणञेयेकण् नञ्-स्रञ्टिताम्' (२।४।२०) डी । सङ्गमनं = सङ्गमः । पन्थाः कर्त्ता यस्याऽसौ पथिकर्तृकः । मन्त्रः करणं यस्याऽसौ मन्त्रकरणः | देवार्चा च मैत्री च सङ्गमश्च पथिकर्तृकश्च मन्त्रकरणश्च तत्, तस्मिन् ।
[स्थः] स्था पञ्चमी इसि । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलोपः ।
[जिनेन्द्रमुपतिष्ठते] उप 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था० । 'निमित्ताभावे नैमित्तिकस्याऽप्यभावः' (न्या० स० वक्ष० ( १ ) / सूत्र (२९)) स्था । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'श्रीतिं कृयु-धि- पा०' (४।२।१०८) "तिष्ठ" आदेशः ।
मैवं मंस्थाः सचित्तोऽयमेषोऽपि हि यथा वयम् । एतदप्यस्य कापेयं, यदर्कमुपतिष्ठति ||१||
=
For Private & Personal Use Only
=
www.jainelibrary.org