________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
१३९
नु-प्रच्छः ।।३।३५४।।
[नुप्रच्छः] नुश्च प्रच्छ् च = नुप्रच्छम्, तस्मात् ।
[आनुते शृगालः] ‘णुक् स्तुतौ' (१०८१) णु । 'पाठे धात्वादेर्णो नः' (२।३।९७) नु, आड्यूर्व० । वर्त० ते । स(श)गालः । उत्कण्ठितः शब्दं करोतीत्यर्थः, उत्कण्ठापूर्वक संशब्दने नौतेरयं विधिः शब्दशक्तिमाहात्मा(म्या)त्, न सर्वत्र ।
[आपृच्छते गुरुन्] 'प्रछत् ज्ञीप्सायाम्' (१३४७) प्रछ्, आयूर्व० । वर्त० ते । 'तुदादेः शः' (३।४।८१) शप्र० → अ । ‘ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४।१।८४) य्वृत् प्र० → पृ० ।
[“आपृच्छस्व प्रियसखम्” - मेघदूते] आप्रच्छ् । पञ्चमी स्व । 'तुदादेः शः' (३।४।८१) शप्र० । ग्रह-वस्च० (४।१।८४) वृत् प्र० → पृ० । प्रियसखि । प्रियः सखा यस्याऽसौ । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः, तम् । वियुज्यमानस्य प्रश्नेऽयं विधिः ।
[प्रणौति] प्र-नु । वर्त्तः तिव् । 'उत और्विति व्यञ्जनेऽद्वेः' (४।३।५९) औ । 'रघुवर्णान्नो ण०' (२।३।६३) न० → ण० छ।।
गमेः क्षान्तौ ।।३।३।५५||
[गमेः] गमि पञ्चमी डसि ।
[क्षान्तौ] 'क्षमू(मौ)च् सहने' (१२३५) क्षम् । क्षमणं = क्षान्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० 'अहन्-पश्चमस्य क्वि-क्ङिति' (४।१।१०७) दीर्घः-आ, तस्याम् ।
→ ति ।
[आगमयते गुरून्] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्नुं गतौ' (३९६) गम् वि० । आगच्छति गुरुस्तं आगच्छन्तं गुरुं शिष्यः प्रयुक्ते । 'प्रयोक्तव्यापारे णिग' (३।४।२०) णिगप्र० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । 'अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (११२।२३) अय् । कश्चित् कालं प्रतीक्षते ।
[आगमयस्व तावत्] आगमयस्व तावत् । कश्चित् कालं सहस्वेत्यर्थः ।
[आगमयति विद्याम] आ-गम् । आगच्छति विद्या, तां विद्यां आगच्छन्तीं शिरसा प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अग्रे पूर्ववत् । विद्यां गृहणातीत्यर्थः ।
क्षान्तिः = कालहरणम्, तत् स्वभावाद् गमिर्ण्यन्त एव वर्त्तते ।।छ।।
हः स्पर्धे ।।३।३।५६।। [हः] हा पञ्चमी डसि । 'लुगाऽऽतोऽनापः' (२।११०७) आलोपः । [स्पर्धे] स्पर्ध सप्तमी ङि ।
[मल्लो मल्लमाह्वयते] ‘हॅग् स्पर्धा-शब्दयोः' (९९४) हे, आप० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'एदैतोऽयाय' (१।२।२३) अय् । स्पर्धमान आकारयतीत्यर्थः । स्पर्धोपसर्जने आह्वाने धातोर्वृत्तिं दर्शयति ।।छ।।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org