________________
१३८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
MANANRAAN
'अवर्णेवर्णस्य' (७।४।६८) अलोपः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । प्रक्रामति गच्छतीत्यर्थः ।
अपरेधुरुपकामति अपर । अपरस्मिन्नहनि । 'पूर्वा-ऽपरा-ऽधरोत्तरा-ऽन्या-ऽन्यतरेतरादेधुस्' (७।२।९८) एधुसप० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । उपक्रामति-समीपमागच्छतीत्यर्थः ।
[प्रक्रमते, उपक्रमते प्रक्रमते, उपक्रमते । पादाभ्यां गन्तुमारभत इत्यर्थः ।।छ।।
आडो ज्योतिरुदगमे ।।३।३।५२।।
[आङः] आङ् पञ्चमी ङसि । [ज्योतिरुद्गमे] ज्योतिषामुद्गतः(मः) = ज्योतिरुद्गमः, तस्मिन् ।
[आक्रमते चन्द्रः] क्रम्, आङ्पूर्व० । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [आक्रमते सूर्यः] क्रम्, आङ्पूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । उदयते इत्यर्थः । [आक्रामति माणवकः कुतुपम] कुतपं - छागरोमकंबलमित्यर्थः, आक्रामति माणवकः । अवष्टभ्नातीत्यर्थः । [धूम आक्रामति] धूम आक्रामति । उद्गच्छतीत्यर्थः । [आक्रामति धूमो हर्म्यतलम्] आक्रामति धूमो हर्म्यतलम् उद्गच्छन् व्याप्नोतीत्यर्थः ।।छ।।
दागोऽस्वाऽऽस्यप्रसार-विकासे ।।३।३।५३।।
[दागः] दाग पञ्चमी ङसि ।
[अस्वाऽऽस्यप्रसारविकासे] स्वं च तद् आस्यं च = स्वाऽऽस्यम्, स्वाऽऽस्यस्य प्रसारः = स्वाऽऽस्यप्रसारः, स्वाऽऽस्यप्रसारश्च विकाश(स)श्च = स्वाऽऽस्यप्रसारविकाश(सम्) । न स्वाऽऽस्यप्रसारविकाशं (सं) = अस्वाऽऽस्यप्रसारविकाशं(सम्) । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् ।
[विद्यामादत्ते] विद्या द्वितीया अम् । 'डुदांगक दाने' (११३८) दा, आङ्पूर्व० । वर्त्त० ते । 'हवः शिति' (४।१।१२) दा सउं द्विवचनम् । 'हूस्वः' (४।१।३९) ह्रस्वत् । 'श्नश्चाऽऽतः' (४।२।९६) आलोपः । 'अघोषे प्रथमोऽशिटः' (१।३५०) द० → त० ।
[धनमादत्ते] धन द्वितीया अम् । आदत्ते पूर्ववत् । गृह्णातीत्यर्थः ।
[उष्ट्रो मुखं व्याददाति मुख द्वितीया अम् । 'डुदांगक दाने' (११३८) दा, वि-आड्यूर्व० । वर्त्तः तिव् । 'हवः शिति' (४।१।१२) दा सऊं द्विवचनम् । 'हस्वः' (४।१।३९) ह्रस्वत् । प्रसारयतीत्यर्थः ।
[कूलं व्याददाति] तटं विकसतीत्यर्थः ।
[विपादिका व्याददाति] 'पदिंच गतौ' (१२५७) पद्, विपूर्व० । विपद्यते । 'नाम्नि पुंसि च' (५।३।१२१) णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४११११) इ । प्रथमा सि । व्याददाति = विकसतीत्यर्थः ।।छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org