________________
अथ तृतीयाध्यायस्य तृतीयः पादः ।।
mean
परोपात् ।।३।३।४९।। [परोपात्] परा च उपश्च = परोपम्, तस्मात् । [पराक्रमते, उपक्रमते] क्रम्, परा-उपपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[अनुक्रामति] अनु-क्रम् । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'क्रमो दीर्घः परस्मै' (४।२।१०९) दीर्घः ।
[पराक्रामति, उपक्रामति] परा-उप, क्रम् । वर्त्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४७१) शव । 'क्रमो दीर्घः परस्मै' (४।२।१०९) दीर्घः ।
अन्ये तु परोपाभ्यां परात् क्रमतेर्वृत्त्याद्यर्थाभावेऽपीच्छन्ति, तेन - पराक्रमते, उपक्रमते इत्यात्मनेपदमेव । [निष्क्रमते निः क्रमते ।। [प्रतिक्रमते] प्रति क्रमते, न प्रतिहन्यत इत्यर्थः ॥छ।।
वेः स्वार्थे ।।३।३।५०।। [वेः] वि पञ्चमी डसि ।। [स्वार्थे] स्वकीयोऽर्थः = स्वार्थस्तस्मिन्, स्वश्चासावर्थश्च = स्वार्थस्तस्मिन् इति वा ।
[साधु विक्रमते गजः] साधु ‘क्रियाविशेषणात्' (२।२।४१) द्वितीया अम् । वि-क्रम् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् ।
[अश्वेन विक्रामति] अश्वेन विक्रामति, विक्रामत्यजिनसंधिः, स्फुटतीत्यर्थः । [विक्रामति राजा] विक्रामति राजा, उत्सहते इत्यर्थः ।
परोपात् इति नियमात् 'वृत्ति-सर्ग-तायने' (३।३।४८) इत्यनेनापि आत्मनेपदं न भवति ।।छ।।
प्रोपादारम्भे ।।३।३५१।।
[प्रोपात्] प्रश्च उपश्च = प्रोपम्, तस्मात् ।
[आरम्भे] 'रभिं राभस्ये' (७८५) रभ, आयूर्व० । आरम्भणं = आरम्भः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'रभोऽपरोक्षा-शवि' (४।४।१०२) नकारागमस्तस्मिन् ।
[पक्रमते, उपक्रमते भोक्तुम्] प्र-उप, क्रम् । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'भुजंप् पालनाऽभ्यवहारयोः' (१४८७) भुज् । भोजनं = भोक्तुम् । ‘शक-धृष-ज्ञा-रभ-लभ-सहा-ऽर्ह-ग्ला-घटाऽस्ति-समर्थाऽर्थे च तुम्' (५।४।९०) तुमप० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० । प्रारभते अङ्गीकरोति वेत्यर्थः ।।
[पूर्वेयुः प्रक्रामति] पूर्व । पूर्वस्मिन्नहनि । 'पूर्वा-ऽपरा-ऽधरोत्तरा-ऽन्या-ऽन्यतरेतरादेद्युस्' (७।२।९८) एद्युस्प्र० ।
P.
भोजनाय = भोक्तुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org