________________
१३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
आचार्यकं च भृतिश्च उत्क्षेपश्च ज्ञानं च विगणनं च व्ययश्च = तत्, तस्मिन् ।
[नियः] ‘णींग प्रापणे' (८८४) णी । पाठे धात्वादेर्णो नः' (२।३।९७) नी । पञ्चमी डसि । 'धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये' (२।१।५०) इय् ।
[नयते विद्वान् स्याद्वादे] नी । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (११२।२३) अय् । विद्वान् स्याद्वादे । नयते = प्रमाणव्यापारवित् स्याद्वादे जीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य शिष्यबुद्धिं प्रापयतीत्यर्थः, ते युक्तिभिः स्थिरीकृताः पूजिता भवन्ति ।
[माणवकमुपनयते] मनु । मनोरपत्यं = माणवः । ‘डसोऽपत्ये' (६।१।२८) अण्प्र० → अ । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'माणवः कुत्सायाम्' (६।१।९५) णत्वम् । माणव एव = माणवकः । ‘यावादिभ्यः कः' (७।३।१५) कप्र० । माणवकमुपनयते = स्वयमाचार्यो भवन् माणवकमध्ययनायाऽऽत्मसमीपं प्रापयतीत्यर्थः ।
[कर्मकरानुपनयते] भृतिः वेतनम् । कर्मन् ‘डुकंग करणे' (८८८) कृ । कर्म कुर्वन्तीति । 'भृतौ कर्मणः' (५।१।१०४) टप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । कर्मकर द्वितीया शस् । उपनयते = वेतनेन मूल्येनाऽऽत्मसमीपं प्रापयतीत्यर्थः ।
[शिशुमुदानयते] उत्क्षेपः = ऊर्ध्वं नयनम् । शिशु द्वितीया अम् । उत्-आड़पूर्व० नी । उत्क्षिपतीत्यर्थः ।
[नयते तत्त्वार्थे] ज्ञानं = प्रमेयनिश्चयः । तत्त्वभूतोऽर्थो यस्य सः = तत्त्वार्थस्तस्मिन्, नयते तत्त्वार्थे । तत्र प्रमेयं निश्चिनोतीत्यर्थः ।
[मद्राः कारं विनयन्ते] विगणनम् = ऋणादेः शोधनम् । मद्र प्रथमा जस् । कार द्वितीया अम् । विनयते(न्ते) = राजग्राहां भागं दानेन शोधयन्तीत्यर्थः ।
[शतं विनयते] व्ययो धर्मादिषु विनियोगः । शत द्वितीया अम् । विनयते । [सहस्रं विनयते सहस्र द्वितीया अम् । विनयते = धर्माद्यर्थं तीर्थादिषु विनियुक्त इत्यर्थः ।।छ।।
कर्तृस्थामूर्ताऽऽप्यात् ॥३॥३॥४०॥ [कर्तृस्थामूर्ताप्यात्] कर्तरि तिष्ठतीति कर्तृस्थम् । 'स्था-पा-स्ना-त्रः कः' (५।११४२) कप्र० । 'इडेत-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । न मूर्तं = अमूर्त्तम् । कर्तृस्थं अमूर्त आप्यं = कर्म यस्य सः = कर्तृस्थामूर्त्ताप्यः, तस्मात् ।
[श्रमं विनयते] श्रम द्वितीया अम् । वि ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेो नः' (२।३।९७) नी । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । एदैतोऽयाय' (१।२।२३) अय् ।
[क्रोधं विनयते] क्रोध द्वितीया अम् । विनयते पूर्ववत्, शमयतीत्यर्थः ।
"शिवमौपयिकं गरीयसी, फलनिष्पत्तिमदूषितायतिम् । विगणय्य नयन्ति पौरुषं, विहितक्रोधरया जिगीषवः" ।।१।। [किराते]
[औपयिकम्] उपाय । उपाये भवम् । 'उपायाद् ध्रस्वश्च' (७।२।१७०) इकणप्र० -→ इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । द्वितीया अम् ।
[विगणय्य] विगणय्य = विचिन्त्येत्यर्थः ।।छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org