________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
जत्रा || ३ | ३ | ३७।।
[भुनजः ] भुनज् पञ्चमी इसि ।
[अत्राणे ] नत्राणं
= अत्राणम् । ‘नञत्' (३।२।१२५) न० अ० तस्मिन् ।
[ओदनं भुङ्क्ते ] ओदन द्वितीया अम् । 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । वर्त्त० ते । 'रुधां स्वराच्श्नो नलुक् च' (३।४।८२) श्नप्र० न । 'श्नाऽस्त्योर्लुक्' (४।२१९०) अलोपः । 'च-जः क - गम्' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) ग०क० । म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न०ड० ।
[महीं भुनक्ति ] पृथ्वीं भुनक्ति । पालयतीत्यर्थः ।
[" अम्बरीषश्च नाभागो, बुभुजाते चिरं महीम्"] भुज् । परोक्षा आते । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) भुज् सउं द्विर्वचनम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । द्वितीय-तुर्ययोः पूर्वौ' (४।१।४२) भु० बु० । पालनेन महीमुपकृतवन्तौ मह्याश्रयं फलं स्वीकृतवन्ताविति वेत्यर्थः ।
[ओष्ठौ निर्भुजति] ओष्ठ द्वितीया औ । निर् 'भुजत् कौटिल्ये' (१३५१) भुज् । वर्त्त० तिव् । 'तुदादेः शः ' ( ३।४।८१ ) शप्र० अ । कुटिलयतीत्यर्थः ||छ ||
हगो गतताच्छील्ये || ३ | ३ |३८||
[ग] हृग् पञ्चमी इसि ।
[गतताच्छील्ये] 'गम्लूं गतौ' ( ३९६) गम् । गमनं = गतम् । 'क्लीवे क्तः ' ( ५।३।१२३) प्र० । 'यमिरमि- नमि-गमि० ' ( ४।२।५५) मलोपः । तत् शीलमस्य तच्छीलः, तच्छीलस्य भावः कर्म वा = ताच्छील्यम् । ‘पतिराजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च ' ( ७।१।६०) ट्यण्प्र०य । वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । गतं च तत् ताच्छील्यं च = गतताच्छील्यम्, तस्मिन् ।
१३१
=
[पैतृकमश्वा अनुहरन्ते] पितृ । पितुरागतम् । 'ऋत इकण्' (६।३।१५२ ) इकण्प्र०
उत्पत्तेः प्रभृत्याविनाशात् तत्स्वभावत (ता) इति ताच्छील्यलक्षणं (२) । गतं प्रकारः सादृश्यमनुकरणमित्येकोऽर्थः (१) । इक । वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः ऐ । 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७।४।७१ ) इत्यादिना इलोपः । पैतृक द्वितीया अम् । अश्व प्रथमा जस् । 'हंग हरणे' (८८५) हृ, अनुपूर्व० । वर्त्त० अन्ते । 'कत्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो० ' (४।३।१) गु० अर् ।
Jain Education Intemational
[मातृकं गावोऽनुहरन्ते ] मातृ । मातुरागतम् । ऋत इकण्' ( ६ । ३ । १५२ ) इकण्प्र० इक । 'ऋवर्णोवर्ण०' ( ७/४/७१ ) इलोपः ।
पितुरागतं मातुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः ।
[ पैतृकमधा अनुहरन्ते] पैतृकमश्वा अनुहरते (न्ते) । पितुरागमनमविच्छेदेन शीलयतीत्यर्थः ।
[पैतृकमधा अनुहरन्ते] पैतृकमश्वा अनुहरन्ति (न्ते ) । तद्वद् गच्छन्ति, तद्बच्छीलन्ति वेत्यर्थः ॥ छ ||
पूजा - SSचार्यक- भृत्युत्क्षेप- ज्ञान-विगणन-व्यये नियः || ३ | ३ | ३९ ||
[पूजाऽऽचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये ] आचार्यस्य भावः कर्म वा । 'योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ्'
( ७।१।७२ ) अकञ्प्र० अक । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । पूजा च
For Private & Personal Use Only
www.jainelibrary.org