SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३० अन्वाङ्-परेः ।।३।३।३४।। [ अन्चाङ्परेः ] अनुश्च आङ् च परिश्च अन्वाङ्परि, तस्मात् । [अनुक्रीडते] अनु 'क्रीडृ विहारे' (२४३) क्रीड् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् । [अनुक्रीडमाणः] अनुक्रीडते । 'शत्रानशा ० ' ( ५।२।२० ) आनश्प्र० शव् । 'अतो म आने' ( ४|४|११४) मोऽन्तः । = [आक्रीडते, परिक्रीडते ] आङ्-परि, क्रीड् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [माणवकमनुक्रीडति] माणवक द्वितीया अम् । 'हेतु- सहार्थेऽनुना' (२।२।३८) इति द्वितीया । क्रीड् । वर्त्त० ति । ‘कर्त्तर्यनद्भ्यः शव्’ (३।४।७१ ) शव् । माणवकेन सह क्रीडतीत्यर्थः । [उपरि क्रीडति ] ऊर्ध्व । ऊर्ध्वे देशे वसति । 'ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य' (७।२।११४) रिप्र० - ऊर्ध्वस्य च उप० । प्र० सि । 'अव्ययस्य' (३|२|७) सिलोपः ||छ || शप उपलम्भने || ३ | ३ | ३५ ।। [ आशिषि ] आशिष् (स्) सप्तमी ङि । [नाथः] नाथ पञ्चमी इसि । श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [शपः ] शप् पञ्चमी इसि । [उपलम्भने] उप 'डुलभष् प्राप्तौ ' ( ७८६) लभ् । उपलभ्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन, तस्मिन् । [ मैत्राय शपते] मैत्र चतुर्थी ङे । 'श्वाघ - हूनु-स्था-शपा प्रयोज्ये' (२।२।६० ) इति चतुर्थी । ' शपीं आक्रोशे' (९१६) शप् । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । मैत्रं कञ्चिदर्थं बोधयतीत्यर्थः । [ मैत्राय शपते ] मैत्राय शपते इति वाचामात्रादिशरीरस्पर्शनेन मैत्रं स्वाभिप्रायं बोधयतीत्यर्थः । [मैत्राय शपते] उपलब्धो ज्ञाने सति मैत्राय शपते, प्रोषिते मैत्रे तस्य भावेऽभावे चोपलब्धे सति तदनुरुपं किञ्चिदनुतिष्ठतीत्यर्थः । [ मैत्रं शपति ] आक्रोशतीत्यर्थः ।।छ।। आशिषि नाथः || ३ | ३ | ३६ || आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) Jain Education International [सर्पिषो नाथते] सर्पिस् षष्ठी ङस् । 'नाथः ' (२।२।१० ) इति सूत्रेण वा कर्म । 'नाशृङ् उपतापैश्वर्याशीःषु च ' ( ७१६) नाथ् । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । सर्पिमें भूयादित्याशास्ते इत्यर्थः । श० म० न्या० - उपपूर्वकाल्लभतेर्ण्यन्ताद् भावेऽनटि उपलम्भनशब्दसिद्धिः । [ मधुनो नाथते] मधु षष्ठी ङस् । 'अनाम्स्वरे नोऽन्तः ' (१।४।६४) नोऽन्तः । नाथते । मधु मे भूयादित्याशास्ते इत्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy