SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ......mmmmmmmmmmmmmmmmmmmmmmmmmmmmm १२९ गुरुवचनमुच्चरते] उत् 'चर भक्षणे च' (४१०) चर् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शवप० mm → अ । गुरुवचन द्वितीया अम् । [मार्गमुच्चरते] उत् 'चर भक्षणे च' (४१०) चर् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शवप्र० → अ । मार्ग द्वितीया अम् । व्युत्क्रम्य गच्छतीत्यर्थः । [ग्रासमुच्चरते] ग्रास द्वितीया अम् । [सक्तूनुच्चरते] सक्तु द्वितीया शस् । भक्षयतीत्यर्थः । [धूम उच्चरति] धूम द्वितीया अम् । 'चर भक्षणे च' (४१०) चर् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [शब्द उच्चरति शब्द । उत् 'चर भक्षणे च' (४१०) चर | वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । ऊर्ध्वं गच्छतीत्यर्थः ।।छ।। समस्तृतीयया ||३।३।३२।। [समः] सम् पञ्चमी डसि । [तृतीयया] तृतीया तृतीया टा । ‘टौस्येत्' (१।४।१९) ए । 'एदैतोऽयाय' (१।२।२३) अय् । [अश्वेन संचरते] अश्व तृतीया टा । सम् 'चर भक्षणे च' (४१०) चर् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ["उभौ लोकौ संचरसि, इमं चामुं च देवल !"] उभ द्वितीया औ । लोक द्वितीया औ । [किं त्वं करिष्यसि रथ्यया, संचरति चैत्रोऽरण्ये"] अत्र तृतीयान्तेन सह संयोगाभावात् न स्यात् ।।छ।। क्रीडोऽकूजने ।।३।३।३३।। [क्रीडः] क्रीड् पशमी डसि । [अकूजने]卐 'कूजण संशब्दने' ( ) कूज् । 'चुरादिभ्यो णिच' (३।४।१७) णिचप्र० → इ । कूज्यते । 'अनट्' (५।३।१२४) अनट्प्र० → अन । न कूजनं = अकूजनम्, तस्मिन् । [संक्रीडते] सम् ‘क्रीड़ विहारे' (२४३) क्रीड् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [संक्रीडमाणः] 'क्रीड़ विहारे' (२४३) क्रीड्, संपूर्व० । संक्रीडते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प० → आन | 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतो म आने' (४|४|११४) मोऽन्तः । रमत इत्यर्थः । [संक्रीडन्ति शकटानि सम-क्रीड् । वर्त० अन्ति । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव । शकटानि । अव्यक्तं शब्द कुर्वन्तीत्यर्थः ।।छ।। श० म० न्या० - अव्यक्तशब्दार्थः कूजधातुर्बादौ पठितस्ततो भावेऽने कूजनशब्दो व्युत्पन्नोऽव्यक्तशब्दार्थ एव भवति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy