________________
१२८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
समः क्ष्णोः ।।३।३।२९।। [समः] सम् पञ्चमी डसि ।
[क्ष्णोः] क्ष्णु पञ्चमी डसि । 'ङित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां ङसि-ङसो रः' (१।४।३५) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ।
[संक्ष्णुते शस्त्रम् सम् 'क्ष्णुक तेजने' (१०८२) क्ष्णु । वर्त्त० ते । 'शसू हिंसायाम्' (५४९) शस् । शस्यतेऽनेनेति । 'नी-दाव्-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट्' (५।२।८८) त्रटप० →त्र । अम् ।
[क्ष्णौति] क्ष्णु । वर्तः तिव् । 'उत और्विति व्यञ्जनेऽद्वेः' (४।३।५९) औ ।
[आयसं क्ष्णौति] अयस इदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिःआ | अम् ।।छ।।
अपस्किरः ।।३।३।३०।।
[अपस्किरः] ॥ अपस्किरः अखण्डं पञ्चम्यन्तम् ।
[अपस्किरते वृषभो हृष्टः] अप 'कृत् विक्षेपे' (१३३४) कृ । 'अपाच्चतुष्पात्-पक्षि-शुनि-हृष्टा-ऽन्ना-55श्रयाऽर्थे' (४।४।९५) इत्यादिना स्सट्प्र० → स० । वर्त्त० ते । 'तुदादेः शः' (३।४८१) शप्र० → अ । 'ऋतां विडतीर्' (४।४।११६) इर् | तुषं (१२१३) - 'हृषच तुष्टौ' (१२१४) हृष् । हर्षणं = हृष्टि: । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । हृष्टिरस्याऽस्तीति । 'अभ्रादिभ्यः' (७।२।४६) अप्र० । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । यद्वा 'हषू अलीके' (५३५) हृषु । हर्षति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । 'ऊदितो वा' (४।४।४२) इत्यस्य विकल्पकत्वात् क्ते सति 'वेटोऽपतः' (४।४।६२) इत्यनेन नित्यमिट (न) भवति ।
[अपस्किरते कुक्कुटो भक्ष्यार्थी] भक्ष्य 'अर्थणि उपयाचने' (१९३१) अर्थ । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० →इ । भक्ष्यमर्थयतीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् । 'णेरनिटि' (४।३।८३) णिच्लोपः । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । दीर्घड्याब' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहनः' (२।१।९१) नलोपः ।
[अपस्किरते श्वा आश्रयार्थी] आश्रयमर्थयतीत्येवंशीलः । 'अजातेः शीले' (५।११५४) णिन्प्र० →इन् । 'णेरनिटि' (४।३।८३) णिच्लोपः । प्रथमा सि । शेषं पूर्ववत् ।
[उपस्किरति उप कृत् विक्षेपे' (१३३४) कृ । 'उपात् किरो लवने' (४।४।९३) स्सटप्र० → स० । वर्त्त० तिव् । 'तुदादे: शः' (३।४।८१) शप्र० → अ । 'ऋतां विडतीर्' (४।४।११६) इर् ||छ।।
उदश्चरः साप्यात् ।।३।३।३१।। [उदः] उत् पञ्चमी डसि । [चरः] चर् पञ्चमी डसि । [साप्यात] सह आप्येन वर्तत इति साप्यम् । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सहस्य सभावः, तस्मात् । अपपूर्वः स्किर् = अपस्किर, तस्मात् ।
P.
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org