________________
१२७
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
परि-व्यवात् क्रियः ।।३।३।२७॥ [परिव्यवात परिश्च विश्च अवश्च = परिव्यवम्, तस्मात् = परिव्यवात् ।
[क्रियः] क्री पञ्चमी डसि । 'संयोगात्' (२।१।५२) इय् ।
[परिक्रीणीते, विक्रीणीते, अवक्रीणीते] परि-वि-अवपूर्व० 'डुक्रींग्श् द्रव्य-विनिमये' (१५०८) की । वर्त्त० ते । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । ‘एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० ।
अफलवति आत्मनेपदं स्याद्वादाश्रयणात् कथञ्चिद्वेदं कथञ्चिदभेदः । अनुकार्यानुकरणयोर्भेदात् स्यादयो भवन्ति अभेदादियादेशश्च धातुत्वादिति न विरुध्यते ।
[उपरि क्रीणाति] ऊर्ध्व । ऊर्ध्वं देशे वसति । 'ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य' (७।२।११४) रिप्र० - ऊर्ध्वस्य उप० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । क्रीणातीत्यत्र ‘रवर्णान्नो ण०' (२।३।६३) न० ते ण ।
[वनं बहुवि क्रीणाति] बहु-वि | बहवो वयो यत्र तत् । द्वितीया अम् । 'अनतो लुप्' (१।४।५९) अमलोपः ।
[अपचाव] 'डुपची पाके' (८९२) पच् । हस्तनी व । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव । 'म-व्यस्याः ' (४।२।११३) दीर्घः-आ । 'अड् धातोरादि०' (४।४।२९) अट् ।
[क्रीणीवः] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) की । वर्त्तः वस् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) ई । 'रवर्णान्नो ण०' (२।३।६३) न० → ण० ।
[मुनी इत्याह] मुनि औ । ‘इदुतोऽस्त्रेरीदूत्' (१।४।२१) औ सउं ई । इत्याह प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[द्विष्पचतीत्याह] द्वि । द्वौ वारौ = द्विः । 'द्वि-त्रि-चतुरः सुच्' (७।२।११०) सुचप्र० → स० । अग्रे पचति । 'सो रुः' (२११७२) स० → र० । 'सुचो वा' (२।३।१०) र० → ष० ॥छ।।
परा-वेर्जेः ।।३।३।२८||
[परावेः] परा च विश्च = परावि, तस्मात् । [जेः] जि पञ्चमी इसि । 'डित्यदिति' (१।४।२३) ए । ‘एदोद्भ्यां०' (१।४।३५) र० ।
[पराजयते, विजयते] परा-वि卐 'जिं जये (अभिभवे)' (८) जि । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[सेना परा जयति परा = प्रकृष्टा, प्रथमा सि । दीर्घड्याब०' (१।४।४५) सिलोपः । जि । वर्त० ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।।
[बहुवि जयति वनम्] बहवो वयः = पक्षिणो यत्र तद्बहुवि । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः ।।छ।।
5
उक्तं च धातुपारायणे - केचित्तु 'जिं जये' इत्यकर्मकत्वार्थं पृथक् पटन्ति जयः सर्वोत्कर्षे इति च व्याचक्षते, तदयुक्तम्, उत्कर्षस्याभिभवाविशेषत्वात् सकर्मकत्वाऽकर्मकत्वयोश्च विवक्षानिबन्धनत्वात् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org