SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२६ शव् । [विपर्यस्यति, विपर्यस्यते] 'असूच् क्षेपणे' (१२२१) अस्, वि-परिपूर्व० । वर्त्त० तिव्-ते । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र०य । [समूहति, समूहते] 'ऊहि वितर्के' (८७०) ऊहू, संपूर्व० । वर्त्त० तिव्-ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) [ अस्योहः ] अस्यश्च ऊह् च = अस्योद्द्, तस्मात् अस्योहः । [वा ] वा प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । = [“सन्ततं तिमिरमिन्दुरुदासे' माघे] उत् 'असूच् क्षेपणे' (१२२१ ) अस् । परोक्षा ए । द्वित्वम् । अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) दीर्घः आ । = [" यशः समूहन्निव दिग्विकीर्णम्" - किराते] समूहत इति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'पदस्य' (२।१।८९) तलोपः । अस्यतेरप्राप्ते ऊहतेश्च नित्यं प्राप्ते उभयत्र विभाषेयम् । [निरस्यति शत्रून् ] निर् 'असूच् क्षेपणे' (१२२१) अस् । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । [समूहते पदार्थान्] सम् ‘ऊहि वितर्के' (८७०) ऊह् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ॥ छ। उत्-स्वराद् युजेरयज्ञतत्पात्रे || ३ | ३ |२६|| श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [ उत्स्वरात्] उच्च स्वरश्च = उत्स्वरम् तस्मात् । [युजेः ] युजि पञ्चमी इसि । P. [अयज्ञतत्पात्रे]+ तस्य पात्रम् = तत्पात्रम्, यज्ञे तत्पात्रम् = यज्ञतत्पात्रम्, न यज्ञतत्पात्रम् = अयज्ञतत्पात्रम्, तस्मिन् अयज्ञतत्पात्रे | [उद्युङ्क्ते, उपयुङ्क्ते] उत्-उप 'युपी योगे' (१४७६) युज् । वर्त्त० ते । 'रुधां स्वराच्श्नो नलुक् च ' ( ३।४।८२) श्नप्र० → न । ‘श्नाऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'च-जः क-गम्' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) ग० क० । ' म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न०ड० । [संयुनक्ति, निर्युनक्ति] सम्-निर् 'युजूंपी योगे' (१४७६) युज् । वर्त्त० तिव्→ ति । 'रुधां स्वराच्श्नो नलुक् च' ( ३।४।८२) श्नप्र० न । 'च- जः क - गम् ' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) ग० क० । Jain Education International [द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ] द्वि । (२) द्वितीयाद्विवचनसहितस्य द्विशब्दस्य *“ रहस्य-मर्यादोक्ति-व्युत्क्रान्ति-यज्ञपात्रप्रयोगे' (७।४।८३) द्वन्द्वं निपातः । यज्ञस्य पात्राणि = यज्ञपात्राणि । द्वितीया शस् । 'युजूंपी योगे' (१४७६) युज्, प्रपूर्व० । शेषं पूर्ववत् ॥ छ ॥ ॐ धातुपारायण-धातुरत्नाकर-क्रियारत्नसमुच्चयेषु 'ऊहि तर्के' । धातुपारायणे टिप्पनके 'ऊहि वितर्के' वितर्कः सम्भावनमिति पाणिनीयाः । P. + तेषाम् । * 'द्वन्द्वं वा' (७।४।८२) द्वन्द्वनिपातः । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy