SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ॥ [ व्यतिसर्पन्ति ] वि-अति 'सृप्लूं गतौ' (३४१) सृप् । वर्त्त० अन्ति । कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [व्यतिहिंसन्ति ] वि-अति । 'हिसु हिंसायाम्' (१४९४ ) हिस् । ' उदितः स्वरान्नोऽन्तः ' ( ४ । ४ ।९८) नोऽन्तः । वर्त्त० अन्ति । 'रुधां स्वराश्नो नलुक् च ' ( ३।४।८२) इति नागमः (श्नप्र० न ) । 'शिङ् हेऽनुस्वारः ' (१।३।४० ) नस्य अनुस्वारः । ‘श्ना-ऽस्त्योर्लुक्' (४।२।९०) नस्य अलोपः पूर्वं ततोऽनुस्वारः । [व्यतिघ्नन्ति] वि-अति ‘हनंक् हिंसा-गत्योः ' (११००) हन् । वर्त्त० अन्ति । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक्' (४।२।४४) अलोपः । 'हनो नो घ्नः ' (२।१।११२) घ्नादेशः । [व्यतिजल्पन्ति] वि-अति रप ( ३३५) -लप (३३६) - 'जल्प व्यक्ते वचने' (३३७) जल्पू । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ व्यतिपठन्ति ] वि-अति 'पठ व्यक्तायां वाचि' (२१३) पठ् । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् । 'लुगस्या०' (२।१।११३) अलोपः । १२५ [व्यतिहन्ति] वि-अति 'हसे हसने ' ( ५४५) हस् । वर्त्त० अन्ति । ' कर्त्तर्यनद्भ्यः शबू' (३।४।७१ ) शब् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [अन्योऽन्यस्य व्यतिलुनन्ति] अन्योऽन्य षष्ठी इस् । वि-अति 'लूग्श् छेदने' (१५१९) लू । वर्त्त० अन्ति । ‘क्यादेः' (३।४।७९) श्नाप्र० → ना । 'श्नश्चाऽऽतः ' ( ४ |२| ९६ ) आलोपः । 'प्वादेर्ह्रस्वः' (४।२।१०५ ) ह्रस्वः । [इतरेतरस्य व्यतिलुनन्ति ] इतरेतर षष्ठी इस् । 'व्यतिलुनन्ति' पूर्ववत् । [ परस्परस्य व्यतिलुनन्ति ] परस्पर षष्ठी डस् । 'व्यतिलुनन्ति' पूर्ववत् । [ व्यतिगम्यन्ते ग्रामाः ] वि-अति अम ( ३९२ ) - द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लृ गतौ' (३९६) गम् । वर्त्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'लुगस्या०' (२।१।११३) अलोपः । [ व्यतिहन्यन्ते दस्यवः ] वि-अति 'हनंक् हिंसा-गत्योः' (११००) हन् । वर्त्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'लुगस्या ० ' (२।१।११३) अलोपः । दस्यु जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । चौराः ||छ || निविशः || ३ | ३ |२४|| [निविशः ] नि-विश् । नेर्विश् निविश्, तस्मात् निविशः । [निविशते ] नि 'विशंत् प्रवेशने ' (१४१५) विश् । वर्त्त० ते । 'तुदादेः श:' ( ३।४।८१) शप्र० → अ । [न्यविशत] नि-विश् । ह्यस्तनी त । 'तुदादे: श: ' ( ३।४।८१) शप्र० अ । 'अड् धातोरादि०' (४।४।२९) अट् ॥ छ ॥ Jain Education International = = उपसर्गादस्योहो वा || ३ | ३ |२५|| [उपसर्गात्] उप 'सृजीं(जं) त् विसर्गे' (१३४९) सृज् । उपसृज्यते धातुना सह संबध्यते योऽसौ उपसर्गः । 'लिहादिभ्यः' (५।१।५० ) अच्प्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । न्यङ्कद्ग- मेघाऽऽदयः' (४।१।११२) गत्वम्, तस्मात् । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy