________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
[सुकटंकराणि वीरणानि ] सुकट । कृ । सुखेनाऽनायासेन अकटाः कटाः क्रियन्ते । 'च्व्यर्थे कर्त्राप्याद् भू- कृगः ' (५।३।१४०) खल्प्र० अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'खित्यनव्ययाऽरुषो मोऽन्तो ह्रस्वश्च'
( ३।२।१११ ) मोऽन्तः । प्रथमा जस् । 'नपुंसकस्य शि : ' (१।४।५५) शि० 'नि दीर्घः' (१।४।८५) दीर्घः । ' रषृवर्णान्नो ण०' (२।३।६४३) न० "उशीरं वीरणं मूले" ।
इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । । वीरणानि तृणविशेषाणि । यत उक्तं -
एतत् कर्मणि ।
[ ईषदाढ्यं भवं भवता] ईषत् + 'यै चिन्तायाम्' (३०) ध्यै । 'आत् सन्ध्यक्षरस्य' ( ४।२।१) ध्या, आङ्पूर्व० । आध्यायत इति । 'शिक्यास्याढ्य-मध्य-विन्ध्य- धिष्ण्याघ्न्य हर्म्य० ' ( उणा० ३६४) आढ्यनिपातः । 'भू सत्तायाम् ' (१) भू । ईषदनायासेन अनाढ्येन आढ्येन भूयते । 'च्यर्थे कर्त्राप्याद् भू-कृगः ' ( ५ । ३ । १४०) खल्प्र० अ । 'नामिनो गुणोऽक्ङिति ' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'खित्यनव्यया०' ( ३।२।१११) मोऽन्तः । एतद्भावे ।
ण०
[सुज्ञानं तत्त्वं मुनिना ] सु 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । सुखेनाऽनायासेन ज्ञायते । 'शासू-युधि-दृशि - धृषि- मृषाSऽतोऽन: ' ( ५।३।१४१) अनप्र० । एतत् कर्मणि ।
[सुग्लानं कृपणेन] सु 'ग्लै हर्षक्षये' (३१) ग्लै । 'आत् सन्ध्यक्षरस्य ' ( ४।२1१ ) ग्ला । सुखेन ग्लायते । 'शासूयुधि०' (५।३।१४१) अनप्र० । एतदपि * कर्मणि ।
१२१
[मास आस्यते] 'आसिक् उपवेशने' (१११९) आस् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । [क्रोशो गुडधानाभिर्भूयते] 'भू सत्तायाम् ' ( १ ) भू । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । [गोदोहः सुप्यते] 'ञिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ठिव ष्वष्कः' (२।३।९८) स्वप् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'स्वपेर्यङ् ङे च' (४।१।८०) व० उ० ।
[नदी सुप्यते] स्वप् । वर्त्त० ते । 'क्यः शिति' (३।४।७० ) क्यप्र०य । 'स्वपेर्यङ् - ङे च' (४।१।८०) व०
→ उ० ।
[मास आसितव्यः ] 'आसिक् उपवेशने' (१११९) आस् । आस्यते । 'तव्याऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।
[मास आसितः ] आस् । आस्यते । क्तप्र० → त ।
[मासो दुरासः] दुर् । आस् । दुःखेनाऽनायासेनाऽऽस्यते । 'दुः- स्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खल्' (५।३।१३९) खलप्र० । एतानि सप्त कर्मणि ।
[मासमास्यते] मास द्वितीया अम् ।
[क्रोशमधीयते] क्रोश द्वितीया अम् । 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । वर्त्त० ते । 'क्यः शिति' (३।४।७०)
क्यप्र०य ।
'उशीरं वीरणीमूले' अभिधानचिन्तामणिनाममालायाम् - ११५८
+ 'शिक्यास्याढ्य-मध्य-विन्ध्य०' (उणा० ३६४) आङ्पूर्व० 'ढोकृङ् गतौ' (६२७) धातोः यप्रत्यये आढ्य इति निपातितः । पृषोदरादयः'
( ३।२।१५५ ) सूत्रे आङ्पूर्व० 'यें चिन्तायाम्' (३०) धातोः कप्रत्यये आढ्यो निपातितः ।
*
श० म० न्या० -
भावे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org