SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । Navaratriotect ionaroinewwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww त्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [भवता शेयम] शी । शय्यते । ‘य एच्चातः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । [भवता कार्यम्] 'डुकंग करणे' (८८८) कृ । क्रियत इति । 'ऋवर्ण-व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धिः आर् । [कर्तव्यम] कृ । क्रियते । 'तव्या-ऽनीयौ' (५1१।२७) तव्यप्र० । 'नामिमो गुणोऽक्डिति' (४।३।१) गु० अर् । [करणीयम् कृ । क्रियते । 'तव्या-ऽनीयौ' (५।१२७) अनीयप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । देयं भवता] दा । दीयते । ‘य एच्चातः' (५।१।२८) यप्र० - आ० → ए० । [कृत्यं भवता] कृ । क्रियत इति । 'कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा' (५।११४२) क्यप्प० → य । 'हस्वस्य तः पित्कृति' (५।५।११३) तोऽन्तः । अष्टसु उदाहरणेषु प्रथमा सि । ‘अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । अष्टासु उदाहरणेषु भावे कृत्यप्रत्ययाः । [कृतः कटो भवता] कृ । क्रियते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त, कर्मणि ।। [शयितं भवता] शी । शय्यते स्म । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [कृतं भवता] कृ । क्रियते स्म । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० →त । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । त्रिषु उदाहरणेषु द्वयं भावे । [ग्रामं गतं भवता] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । गम्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्डिति' (४।२५५) मलोपः । [ओदनं भुक्तं भवता] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३५०) ग० → क० । प्रथमा सि । 'अतः स्यमोऽम्' (११४१५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [सुकरः कटो भवता] सु 'डुकंग करणे' (८८८) कृ । सुखेनाऽनायासेन क्रियते । 'दुःस्वीषतः कृच्छ्रा-ऽकृच्छ्रार्थात् खल्' (५।३।१३९) खलप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । सुशयं भवता] सु 'शीक स्वप्ने' (११०५) शी । सुखेनाऽनायासेन शय्यते । 'दुः-स्वीषतः कृच्छ्रा०' (५।३।१३९) खल्प० → अ । .... [सुकरं भवता] सुखेनाऽनायासेन क्रियते । 'दुः-स्वीषतः कृच्छ्रा०' (५।३।१३९) खलप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । एतानि कर्मणि-भावे । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy