SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ॥ ११५ एताः शितः ॥३।३।१०॥ [एताः] एतद् प्रथमा जस् → अस् । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'आत्' (२।४।१८) आप्प० → आ । 'समानानां०' (१।२।१) दीर्घः । ‘सो रुः' (२।१७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [शितः] श् इदनुबन्धो यासां ताः । प्रथमा जस् । [भवति] 'भू सत्तायाम्' (१) भू । वर्त्त० तिव् → ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (११२१२४) अव् । [भवेत्] भू । सप्तमी यात् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'यः सप्तम्याः' (४।२।१२२) या० → इ० । 'अवर्णस्येवर्णादिनैदोदरल' (११२।६) ए ।। [भवतु] भू । पञ्चमी तुव् →तु । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ओ । 'ओदौतोऽवाव' (१।२।२४) अव् । अभवत्] भू । एस्तनी दिब् → त् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गुणोऽपिडति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अड् धातोरादि०' (४।४।२९) अट् ।।छ।। अद्यतनी ।।३।३।११।। [अद्यतनी] ॥ अद्य भवोऽर्थोऽद्यतनस्तत्र विहिता विभक्तिरपि अद्यतनी । 'सायं-चिरं-प्राणे-प्रगे-ऽव्ययात्' (६।३।८८) तनटप० → तन । 'अणजेयेकण्०' (२।४।२०) डी ।।छ।। परोक्षा ।।३।३।१२।। . [परोक्षा] अक्ष । पर । अक्षाणां परः = परोक्षम् । परोक्षे काले विहिता विभक्तिरपि परोक्षा । 'राजदन्ताऽऽदिषु' (३।१।१४९) इत्यनेन परस्य पूर्वनिपातः । पृषोदरादित्वात् अक्षस्य आदेरस्य उ० । 'आत्' (२।४।१८) आप्प० → आ ॥छ।। आशीः ।।३।३।१३।। [आशीः] 'शासूक् अनुशिष्टौ' (१०९५) शास्, आड्यूर्व० । आशासनमाशीः । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प० । 'आङः' (४।४।१२०) “इस्' आदेशः । प्रथमा सि । 'सो रुः' (२११७२) स० → र० । ‘पदान्ते०' (२११४६४) इत्यनेन दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'रः पदान्ते०' (१।३।५३) विसर्गः ।।छ।। श्वस्तनी ॥३।३।१४।। [श्वस्तनी] + श्वःकल्पे = भविष्यद्दिने भवोऽर्थः = श्वस्तनः, तत्र विहिता विभक्तिरपि श्वस्तनी । 'सायं-चिरं-प्राहणे-प्रगेऽव्ययात्' (६।३।८८) तनट्प० → तन । 'अणजेयेकण्०' (२।४।२०) डी ॥छ।। P.卐अद्य भवा = अद्यतनी । P. + श्वो भवा । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy