________________
११२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
Navyane
न प्रादिरप्रत्ययः ।।३।३।४।। [न] न प्रथमा सि । [प्रादिः] प्र आदिर्यस्याऽसौ प्रादिः । प्रथमा सि ।
[अप्रत्ययः] न विद्यते प्रत्ययो यस्मात् असौ अप्रत्ययः । 'नजत्' (३।२।१२५) न० → अ० ।
[अभ्यमनायत] अभि । मनस् । अभिमुखं मनो यस्याऽसौ अभिमनाः । अनभिमना अभिमना अभवत् = अभ्यमनायत । ‘च्च्यर्थे भृशादे: स्तोः' (३।४।२९) क्यङ्म० → य-सलुक् च । 'दीर्घश्च्चि -यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः आ । हस्तनी त । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शवप्र० → अ । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अभिमिमनायिषते] अभिमनाय । अभिमनायितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० → स । 'आद्योंऽश एकस्वरः' (४।१।२) म सउं द्विर्वचनम् । 'सन्यस्य' (४।११५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः' (४।३।८२) अलोपः । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः ।
[अभिमनाय्य गतः] अभिमनाय । अभिमनायनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप' (३।२।१५४) यप् → य । 'अतः' (४।३।८२) अलोपः । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः ।।
[प्रासादीयत्] 'षद्लू विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद्, प्रपूर्व० । प्रसीदन्त्यस्मिन्नयनमनांसीति प्रासादः । 'व्यञ्जनाद घा' (५।३।१३२) घञ्प्र० → अ । सर्वत्र करणे-अधिकरणे स्यात् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'घञ्युपसर्गस्य बहुलम्' (३१२८६) वा दीर्घः आ । प्रासादमैच्छत् । ‘अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) ई । ह्यस्तनी दिक् → त्० । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[प्रासिसादीयिषति] प्रासादीय । प्रासादीयितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सनप्र० → स । 'आद्योऽश एकस्वरः' (४।१।२) सा सिउं द्विवचनम् । 'हस्वः' (४।१३९) ह्रस्वत् । 'सन्यस्य' (४।११५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४।३।८२) अलोपः । 'नाम्यन्त०' (२।३।१५) षत्वम् । वर्त्तः तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२१११३) अलोपः ।
[प्रासादीय्य गतः] प्रासादीय । प्रासादीयनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप् (३।२।१५४) यप । 'अतः' (४।३।८२) अलोपः ।
[अमहापुत्रीयत्] महत् । पुत्र । महांश्चासौ पुत्रश्च = महापुत्रः । 'जातीयैकार्थेऽच्चेः' (३।२।७०) डाप्र० → आ | 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लोपः । ॥ महापुत्रमैच्छत् । अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । क्यनि' (४।३।११२) ई । ह्यस्तनी दिव्० → त्० । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[उत्सुकायत] उत् । सु । उद्गतं सुष्ठु मनो यस्य सः = उत्सुकः । 'उदुत्सोरुन्मनसि' (७।१।१९२) कप० । उत्सुक इवाऽऽचरत् । 'क्यङ्' (३।४।२६) क्यम० →य । 'दीर्घश्च्चि -यङ्' (४।३।१०८) दीर्घः आ । हस्तनी त । 'स्वरादेस्तासु' P. महापुत्रमिच्छति स्म ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org