SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ।। १११ कृभ्वस्ति चानुतदन्तम्' (३।४।४६) णव० → आम्० । 'डुइंग् करणे' (८८८) कृ । परोक्षा णव० → अ० । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) कृ सउं द्विवचनम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'नामिनोऽकलि-हलेः' (४।३१५१) आर् | [प्रेडोलयति] आदिशब्दात् 'प्रेकोलण् अन्दोलने' (२०४६) इत्यपि पठितश्चोरादिस्ततः 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० → इ । वर्त्त० तिव । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । सति भावोऽन्वयः, असति अभावो व्यतिरेकः । ननु कथं प्रकृतिः प्रत्ययः समुदायोऽपि प्रकृतेरेव धातोरेव क्रियार्थत्वागम इत्याह-कारकादिति संख्यानामादिग्रहणं तुमादिभिस्तु आदिशब्दात् क्त्वा-अम्-कृत्याश्च गृह्यन्ते । सदसदादि-आदिशब्दात् प्रत्यक्षपरोक्षम् । [जायते] 'जनैचि प्रादुर्भावे' (१२६५) जन् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'जा ज्ञाजनोऽत्यादौ' (४।२।१०४) जन्० → “जा' आदेशः । [विपरिणमते] वि-परि ‘णमं प्रहृत्वे' (३८८) णम् । ‘पाठे धात्वादेर्णो नः' (२।३।९७) नम् । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [वर्धते 'वृधूङ् वृद्धौ' (९५७) वृध् । वर्त्त० ते । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [अपक्षीयले] 'झिं क्षये' (१०) क्षि, अपपूर्व० । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'दीर्घश्च्चियङ्यक्-क्येषु च' (४।३।१०८) दीर्घः । [विनश्यति] 'नशौच अदर्शने' (१२०२) नश्, विपूर्व० । वर्त्तः तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । [श्वेतते] श्वेत इति सूत्रोऽयं धातुः । 'श्चिता वर्णे' (९४३) श्चि । वर्त० ते । शव । गुणु । [संयुज्यते] सम् 'युजूपी योगे' (१४७६) युज । वर्त्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य । [समवैति सम्-अव 'इंण्क गतौ' (१०७५) इ । वर्त० तिव । 'नामिनो गुणोऽक्डिति' (४।३19) गु० ए । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) ऐ । यावत् सिद्धमसिद्धं वा, साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्, तत् क्रियेति प्रतीयते ।।१।। के आश्रितं क्रमरूपं येन तदाश्रितक्रमरूपम्, तद्रावस्तस्मात् । परपठितः (१) अपरपठितः (२) नामधातुः (३) सूत्रधातुः (४) आयप्रत्ययान्ताः (५) पथ धातवो दर्शिताः ।।छ।। श० म० न्या० - आश्रितं क्रमरूपं पूर्वापरीभावो यया सा = आश्रितक्रमरूपा, तस्या भावः = आश्रितक्रमरूपत्वम्, तस्मात् । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy