SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । वर्त० ते । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [कण्डूयति] 'कण्डूग् गात्रविघर्षणे' (१९९१) कण्डू । 'धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प्र० →य । वर्त्त० तिव् । [पापच्यते] 'डुपचींष् पाके' (८९२) पच् । भृशं पुनः पुनर्वा पचति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । 'सन्-यडश्च' (४।१।३) 'पच्' द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । [चोरयति] 'चुरण स्तेये' (१५६८) चुर् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प० → इ । वर्त्तः तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए। 'एदैतोऽयाय' (१।२।२३) अय् । [कारयति] (३।३।१) सूत्रवत् । [चिकीर्षति] कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० → स । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'कृतां विडतीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४।१३) किर् सउं द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४१४४) अनादिव्यञ्जनलोपः । 'भ्वादेर्नामिनो०' (२१।६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) स० → प० । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [पुत्रकाम्यति] पुत्र । पुत्रमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) काम्यप्र० । वर्त्तः तिव् । [पुत्रीयति] पुत्रमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) ई । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [अश्वति] अश्व इवाऽऽचरति । 'कर्तुः क्विप्, गल्भ-क्लीब-होडात्तु ङित्' (३।४।२५) क्विप्र० । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [श्येनायते] श्येन । श्येन इवाऽऽचरति । 'क्यङ् (३।४।२६) क्यङ्म० → य । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः आ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [हस्तयते हस्त । हस्तौ निरस्यति । 'अङ्गान्निरसने णिङ् (३।४।३८) णिङ् → इ । 'अतः' (४३।८२) अलोपः । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [मुण्डयति] मुण्ड । मुण्डं करोति । ‘णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० → इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरलोपः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । ‘एदैतोऽयाय्' (१।२।२३) अय् । [जवनः] 'जु गतौ' (१९९०) जु, सौत्रोऽयं धातुः । जवतीत्येवंशीलो जवनः । 'भूषा-क्रोधार्थ-जु-सृ-गृधि-ज्वलशुचश्चाऽनः' (५।२।४२) अनप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । ओदौतोऽवाव् (१।२।२४) अव । [स्तभ्नाति] 'स्तम्भू स्तम्भे' सौत्रोऽयं धातुः । वर्त० तिव् । 'स्तम्भू-स्तम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च' (३।४।७८) श्नाप्र० - ना '। 'नी व्यञ्जनस्याऽनुवितः' (४।२।४५) नलोपः । [चुलुम्पांचकार] 'चुलुम्प विनाशे' (२०५०) चुलुम्प । परोक्षा णव० → अ० । 'धातोरनेकस्वरादाम् परोक्षायाः, Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy