________________
१०८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।
ऐन्द्रम्] इन्द्र । इन्द्रो देवताऽस्य तत् । 'देवता' (६।२।१०१) अणप्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।
[लावयति] 'लूग्श् छेदने' (१५१९) लू । लुनन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१२१२४) आव् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[लावकः] लू । लुनातीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[औपगवः] उप | गो | गोः समीपमुपगुः । 'गोश्चान्ते०' (२१४९६) ह्रस्वः । उपगोरपत्यम् । ‘डसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४७०) अव् ।।छ।।
गुणोऽरेदोत् ।।३।३।२।। [गुणोऽरेदोत्] गुणो । अर् च एच्च ओच्च = अरेदोत् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । गुणशब्दस्य पूर्वनिपातो मङ्गलस्यैवाऽतिशयप्रतिपादनार्थः ।
[करोति] 'डुकुंग करणे' (८८८) कृ । वर्त्तः तिव् । 'कृग्-तनादेरुः' (३।४।८३) उविकरणु । 'नामिनो गुणोऽक्डिति' (४।३१) गु० अर् । 'उ-श्नोः ' (४।३।२) उ० → ओ० ।
कर्तव्यम] कृ । क्रियत इति । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । सि- अम् ।
[चेता] 'चिंगट् चयने' (१२९०) चि । चिनोतीति । ‘णक-तृचौ' (५।१।४८) तृचप्र० → तृ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२1१1११४) ऋलोपः ।
[चेयम् चि । चीयते । “य एच्चातः' (५1१।२८) यप्र० । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । सि-अम् ।
[स्तोता] 'ष्टुंगा स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्ट्वि-प्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे नैमित्तिकस्याऽप्यभावः' (न्या० सं० वक्ष० (१) / सूत्र (२९)) स्तु । स्तौतीति । 'णक-तृचौ' (५११४८) तृच्प्र० →तृ । प्रथमा सि । 'ऋदुशनस्-पुरुदंशो०' (१।४।८४) डा । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ओ।
[स्तोतव्यम् स्तु । स्तूयते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'नामिनो गुणोऽक्डिति' (४३१) गु० ओ ।।छ।।
क्रियार्थो धातुः ।।३।३।३।। [क्रियार्थः] 'डुकंग करणे' (८८८) कृ । करणं = कृतिः । कृतिः = क्रिया । 'कृगः श च वा' (५।३।१००) शप्र० → अ । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'रिः श-क्या-55शीर्ये' (४।३।११०) इति ऋकारस्य रि० । 'आत्' (२।४।१८) आप्प० → आ । क्रियाओं यस्य सः = क्रियार्थः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org