________________
॥ अर्हम् ॥
॥ अथ तृतीयाध्यायस्य तृतीयः पादः ।।
वृद्धिरारैदौत् ।।३।३।१।।
ति ।
[वृद्धिः] ‘वृधूङ् वृद्धौ' (९५७) वृधु । वर्धिषीष्ट इत्याशास्यमाना । ' तिक्कृतौ नाम्नि' (५।१।७१ ) तिक्प्र० 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) ति०धि० । 'धुटस्तृतीयः ' (२।१।७६) ध० द० (?) ('तृतीयस्तृतीय० ' (१।३।४९) ध० द०) । प्र० सि ।
[आरेदीत्] आश्च आर् च ऐच्च औच्च
आरैदौत् । प्रथमा सि । ‘अनतो लुप्' (१।४।५९) सिलोपः ।
[माष्टि] 'मृजीक् शुद्धी' (१०९७) मृज् । वर्त्तमाना तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । गुणे सति 'मृजोऽस्य वृद्धिः' (४।३।४२ ) वृद्धिः आ । 'यज- सृज-मृज-राज० ' (२।१।८७) ज० ष० । ' तवर्गस्य श्चवर्ग० ' (१।३।६० )
त०ट० ।
=
[पाकः] 'डुपचष् पाके' (८९२) पच् । पचनं = पाकः । 'भावा - Sकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । 'ञ्णिति' ( ४ | ३ | ५० ) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च- जो क- गौ घिति' ( ४।१।१११ ) च० क० ।
[ पाक्यम् ] पच् । पच्यत इति । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'ञ्णिति' ( ४ |३|५० ) उपान्त्यवृद्धिः आ । ‘क्तेऽनिटश्च - जो: क- गौ घिति' (४।१११११) च० क० । प्रथमा सि । अतः स्यमोऽम् ' (१।४।५७) अम् ।
[दाक्षिः] दक्ष । दक्षस्याऽपत्यम् । 'अत इञ्' (६।१।३१ ) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । प्रथमा सि ।
[कारयति] 'डुकृंग् करणे' (८८८) कृ । कुर्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । ‘नामिनोऽकलि-हलेः’ (४।३।५१ ) वृद्धिः आर् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव्प्र० अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयायू' (१।२।२३) अय् ।
[कार्यम् ] कृ । क्रियत इति । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'नामिनोऽकलि-हले : ' ( ४ | ३ |५१) वृद्धिः आर् ।
[आर्षम् ] ऋषि । ऋषीणामिदम् । 'तस्येदम् ' ( ६ | ३ | १६० ) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आर् । ‘अवर्णेवर्णस्य’ (७।४।६८) इलोपः । प्रथमा सि । 'अतः स्यमोंऽम् ' (१।४।५७) अम् ।
Jain Education International
[नाययति] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । नयन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० इ । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय् ' (१।२।२३) आय् । वर्त्त० तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [नायकः] नी । नयतीति । 'णक-तृचौ ' ( ५।१।४८ ) णकप्र०
अक । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः
For Private & Personal Use Only
www.jainelibrary.org