SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ १०५ कुलटा] 'अट गतौ' (१९४) अट् । अटतीति । 'अच्' (५।१।४९) अच्प्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ । कुलानामटा । अनेन अलोपः । [अवटः] अव 'अचू गतौ च' (१०५) अञ्च् । अवाञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन "अव" निपातः । 'अट गतौ' (१९४) अट् । अटन्त्यस्मिन्निति । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । अनेन निपातः । [सिंहः] 'हिसु हिंसायाम्' (१४९४) हिस् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) हिन्स् । हिनस्तीति । अच्प्र० । अनेन सकार-हकारयोर्विपर्ययः । [कृकलाशः] कृतक पल (८९२) - फल (९८३) - ‘शल गतौ' (९८४) शल् । कृतकेन शलति । 'वा ज्वलादिदु-नी-भू-ग्रहा-ऽऽस्रोर्णः' (५।१।६२) णप्र० । अनेन तलोपः - श-लयोर्विपर्ययश्च । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः ।। [भ्रमरः] भ्रमत् । टुक्षु (१०८४) - ‘रु शब्दे' (१०८५) रु । भ्रमन् रौति । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१११४) उलोपः । अनेन तलोपः । [मुहूर्तम्] मुहुस् । 'ऋक् गतौ' (११३५) ऋ । मुहुरियति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप० । धातोर्लोपः, मुहुरित्युपान्त्योकारस्य दी| गणपाठात् । [आरग्वधः] अर = अत्यर्थं बध्नातीति । अचप्र० । अनेन निपातः । [अश्वत्थाम] अश्वस्य स्थाम । अनेन स० → त० । [निर्लयनी] निर् 'लूगश् छेदने' (१५१९) लू । नियते । अनट्' (५।३।१२४) अनटप० → अन । 'अणजेयेकणनञ्-स्नञ्-टिताम्' (२।४।२०) डी । अनेन निपातः । सर्पकशुलिका ।।छ।। वाऽवा-ऽप्योस्तनि-क्री धाग-नहोर्व-पी ॥३।२।१५६।। [वा] वा प्रथमा सि । [अवाऽप्योः] अवश्च अपिश्च = अवापी, तयोः = अवाऽप्योः षष्ठी ओस् । [तनिक्रीधागनहोः] तनिश्च क्रीश्च = तनिक्री, धाग च नह च = धागनह, तनिक्रीश्च धाग्नह च = तनिक्रीधाग्नहौ, तयोः = तनिक्रीधाग्नहोः, सप्तमी ओस् । [वपी] वश्च पिश्च = वपी । औ । 'इदुतोऽस्त्रेरीदूत' (१।४।२१) ई । [वतंसः, अवतंसः] अव ‘तनूयी विस्तारे' (१४९९) तन् । अवतन्यते । 'व्यवाभ्यां तनेरीच्च वेः' (उणा० ५६५) सप्र० । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । [वक्रयः, अवक्रयः] अव 'डुक्रींगश् द्रव्यविनिमये' (१५०८) क्री । अवक्रयणम् । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । अनेन विकल्पेन अव० → व० । प्रथमा सि । [पिहितम, अपिहितम] अपि 'डुधांगक धारणे च' (११३९) धा । अपिधीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'धागः' (४।४।१५) धा० → हि० आदेशः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy