SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [महित्थः] मह्यां तिष्ठतीति । 'स्था- पा- स्नात्रः कः' (५1१1१४२) कप्र० अ । 'इडेत्-पुसि चाऽऽतो लुक् ( ४ । ३ । ९४ ) आलोपः । अनेन एषु तिष्ठतेः सकारस्य तकारः । १०४ [मुसलम्] मुहुस् । स्वन । 'लांक् आदाने ' (१०६८) ला । मुहुः स्वनं लातीति । 'लस श्लेषण क्रीडनयो:' ( ५४३) लस् । मुहुर्मुहुर्लसतीति वा । अनेन मुहुः शब्दस्य मुभावः स्वनस्य सभावः । ' क्वचित्' (५।१।१७१) डप्र० → अ । ‘डित्यन्त्यस्वरादेः’ (२।१।११४) अन्त्यस्वरादिलोपः । पक्षान्तरे लसयोर्विपर्ययश्च । [उलूकः ] ऊर्ध्व । कर्ण । ऊर्ध्वो कर्णावस्य । अनेन ऊर्ध्वशब्दस्य " उल्” आदेशः - कर्णस्य च ऊकादेशः । [मेखला ] मेहन । ख । माला । मेहनस्य खं = मेहनखम्, तस्य माला । अनेनाऽत्र मेहनस्य हनस्य लोपः- मालाशब्दस्य घ "मा" लोपः । [कुञ्जरः] कु ‘जृष्च् जरसि' (११४५) ज् । कौ जीर्यति । 'अच्' (५।१।४९ ) अच्प्र० अ । 'नामिनो गुणोऽक्ति' (४।३।१) गु० अर् । अनेन मोऽन्तः । [आशीविषः ] आशु । विष । आश्वस्य विषमस्ति । अनेन आशुशब्दस्य आशीभावः । [बलीवर्दः] बल 'वर्धण् छेदन- पूरणयोः ' (१६६१) वधू । 'चुरादिभ्यो णिच्' ( ३।४।१७ ) णिच्प्र० →इ । बलं वर्धयति । अनेन बलस्याऽन्ते ई-वर्धधकारस्य च दकारः, अच्प्र० अ । [मनीषी] मनस् 'ईशिक् ऐश्वर्ये' (१११६) ईश् । मनस ईष्टे । ' ग्रहादिभ्यो णिन् ' ( ५।१।५३) णिन्प्र० इन् । अनेनाऽत्र मनसोऽन्त्यस्वरादिलोपः ईशेः शस्य च षः । [बिडालः] बिल 'दृश् विदारणे' (१५३५) दृ । दृणन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । ‘नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । बिलं दारयतीति । 'अच्' (५।१।४९) अच्प्र० → अ । अत्र बिलस्य ललोपः - दारस्य च डालादेशः । [ मृणालः ] मृद 'लींच् श्लेषणे' (१२४८) ली, आड्यूर्व० । मृदमालीयते । 'क्वचित्' (५।१।१७१) डप्र० अ । 'डित्यन्त्यस्वरादेः' (२।१।११४ ) ईलोपः । अनेन मृदो दस्य णः । [सृगालः] असृग् ‘लींड्च् श्लेषणे' (१२४८) ली, आड्पूर्व० । असृगालीयते । 'क्वचित्' (५।१।१७१) डप्र० → अ । ‘डित्यन्त्यस्वरादेः' (२।१।११४ ) ईलोपः । अनेनाऽऽदेरस्य लोपः । असृग् 'गृत् निगरणे' (१३३५) गृ । असृग् गिलति वा । ‘कर्मणोऽण्’ (५।१।७२ ) अण्प्र० अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । अनेन असृज आद्यन्तोऽ ज्लोपः । [पुरोडाशः] पुरस् 'दाशृग् दाने' (९२२) दाश् । पुरो दाश्यते । 'भावा - ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र० अ । अनेन दस्य डः । [ वडवा ] अश्व । अम्बा । अश्वस्याऽम्बा । अनेन अश्वस्याऽशो लोपोऽन्ते - मकारस्य लोपो बकारस्य चकारादेशश्च । Jain Education International [शकन्धुः] शा(श) क । अन्धु । शा (श) कस्याऽन्धुः । अत्र पूर्वपदस्याऽन्तस्य उत्तरपदादेर्वा अलोपः । [कर्कन्धुः] कर्कस्याऽन्धुः । अनेन पूर्वपदान्तस्य अलोपः । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy