SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ [आढ्यः ] 'यै चिन्तायाम्' 'स्थादिभ्यः कः' (५।३।८२) कप्र० [दूडासः] दुस् ‘दासृग् दाने’ खल्' (५।३।१३९) खल्प्र० (३०) ध्यै । 'आत् सन्ध्यक्षरस्य' (४।२।१) ध्या, आङ्पूर्व० । अध्यायन्ति तमिति । अ । 'इडेत्-पुसि चाऽऽतो लुक्' ( ४ । ३ । ९४ ) आलोपः । अनेन धस्य "ढ्य' निपातः । (९३३) दास् । कृच्छ्रेण दास्यते । अथवा दुष्टो दासः । दुः-स्वीषतः कृच्छ्रा - ऽकृच्छ्रार्थात् अ । अनेन उत्तरपदादेश्च डत्वं निपातः । [दूणासः] दुस् ‘नशौच् अदर्शने ' (१२०२) नश् । नश्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० → इ । 'ञ्णिति' (४।३ । ५० ) उपान्त्यवृद्धिः आ । कृच्छ्रेण नाश्यते । अथवा दुष्टो नाशः । 'दुःस्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खल्' (५।३।१३९) खल्प्र० अ । अनेन णत्वं निपातः । १०३ [दूडभः] दुस् 'दम्भूट् दम्भे' (१३०९) दम्भू । कृच्छ्रेण दभ्यते, अथवा दुष्टो दम्भः । 'दुः- स्वीषतः ० ' (५।३।१३९) खलप्र० अ । अनेन दम्भेर्नलोपः दस्य डत्वं च निपातः 1 [दूढ्यः ] दुस् 'यै चिन्तायाम्' (३०) ध्यै । 'आत् सन्ध्यक्षरस्य' (४।२।१ ) ध्या । दुष्टं ध्यायति । 'स्थादिभ्यः कः ' (५।३।८२) कप्र० अ । 'इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । अनेन धस्य ढत्वं निपातः । [ मयूरः ] मही टुक्षु ( १०८४) - 'रु शब्दे' (१०८५) रु । मह्यां रौति । अनेन महीशब्दस्य मयूनिपातः । [महिषः ] मही 'शीङ्क् स्वप्ने' (११०५) शी । मह्यां शेते । 'क्वचित्' (५।१।१७१) डप्र० 'डित्यन्त्यस्वरादेः' (२।१।११४ ) ईलोपः । अनेन पूर्वपदस्य ह्रस्वः शस्य षत्वं च निपातः । अ । [पिशाचः ] पिशित 'अशश् भोजने' (१५५८) अश् । पिशितमश्नाति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० अ । अनेन पिशितस्य पिशादेशेऽश्नातेः शस्य च चादेशः । [ श्मशानम् ] शव 'शीक् स्वप्ने' (११०५) शी । शय्यते । 'अनट्' (५|३|१२४) अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । शवानां शयनम् । अनेन पूर्वपदस्य श्मादेशः शयनस्य च शानादेशो निपातः । [वृसी] बुवन् 'षद्लृ विशरण - गत्यवसादनेषु' (९६६ ) षद् । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद् । ब्रुवन्तोऽस्यां सीदन्ति निषीदन्ति । अनेन पूर्वपदस्य वृभावः । [उदूखलम्] ऊर्ध्व । ख । बिल । ऊर्ध्वं खं बिलं वाऽस्य । अनेन ऊर्ध्वस्य उदूभाव उत्तरपदस्य च खलाऽऽदेशो निपातः । [उलूखलम्] ऊर्ध्वं खं बिलं वाऽस्य । अनेन ऊर्ध्वस्य उलूभावः - उत्तरपदस्य च खलाऽऽदेशो निपातः । [दिवौकसः] दिव् । ओकस् । दिवि द्यौर्वा ओकः = गृहमेषां ते । अनेन अकारागमः । 'ऐदौत् सन्ध्यक्षरैः ' (१।२।१२ ) औ । प्रथमा जस् । Jain Education International [अश्वत्थः] अश्व ‘ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । 'षः सौऽष्ट्यै- ष्ठिव ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्षस्कार ( १ ) सूत्र ( २९ ) ) | स्था । अश्व इव तिष्ठतीति । [कपित्थः] कपिरिव तिष्ठतीति, कपयोऽस्मिंस्तिष्ठन्तीति वा । [दधित्थः] दनि तिष्ठतीति । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy