SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [यप्] यप् प्रथमा सि । [प्रकृत्य] प्र 'डुकंग करणे' (८८८) कृ । प्रकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन यप् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । [प्रहृत्य प्र 'हृग् हरणे' (८८५) हृ । प्रहरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन यप् । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । [उच्चैःकृत्य] उच्चैः करणम् । 'कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वा-णमौ' (५।४।८४) क्त्वाप्र० → त्वा । अनेन यप् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । [नानाकृत्य] नाना करणम् । 'स्वाङ्गतश्च्च्य र्थे नाना-विना-धाऽर्थन भुवश्च' (५।४।८६) क्त्वाप्र० → त्वा । अनेन यप् । 'इस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । [अकृत्वा] न करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'नञत्' (३।२।१२५) न० → अ० । [अहत्वा] न हरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'नञत्' (३।२।१२५) न० → अ० । [परमकृत्वा परमकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । [अलं कृत्वा] अलं करणेन । 'निषेधेऽलं-खल्वोः क्त्वा' (५।४।४४) क्त्वाप्र० → त्वा । [खलु कृत्वा] खलु करणेम । 'निषेधेऽलं-खल्वोः क्त्वा' (५।४।४४) क्त्वाप्र० -→ त्वा ।।छ।। पृषोदरादयः ॥३।२।१५५॥ [पृषोदरादयः] पृषोदर आदिर्येषां ते । प्रथमा जस् । 'जस्येदोत्' (१।४।२२) इ० → ए० । 'एदैतोऽयाय' (१।२।२३) अय् । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [पृषोदरः] पृषत् । उदर । पृषदुदरमुदरे वाऽस्याऽसौ । अनेन तलोपो निपातः । [पृषोदरम्] पृषत उदरम् । अनेन तलोपो निपातः । [पृषोद्वानम्] पृषत उद्वानम् । [पृषोद्धारम्] पृषत् 'धृग् धारणे' (८८७) धृ । पृषतमुद्धर इति । 'कर्मणोऽण्' (५।११७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर् । अनेन तलोपो निपातः । 'धुटस्तृतीयः' (२११७६) त० → द० । 'अवर्णस्ये०' (१।२।६) ओ । + [पृषोद्वारम्] पृषत्-उत् 'वृगट वरणे' (१२९४) वृ । पृषतमुदृणोतीति । 'कर्मणोऽण्' (५।१७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर् । अनेन तलोपो निपातः । अवर्णस्येवर्णादिनैदोदरल् (१।२।६) ओ । [जीमूतः] जीवन । मूत । जीवनस्य-जलस्य मूतः पुटबन्धः । अनेन वनलोपो निपातः । [बलाहकः] वारि । वाहक । वारिणो वाहकः । पूर्वपदस्य "ब", उत्तरपदादेश्च "ल" आदेशो निपातोऽनेनैव । P. परमं च तत् कृत्वा च । + न विद्यते इदमुदाहरणं बृहद्वृत्तौ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy