SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ।। १०१ wwwaamannamawwanimaniamomaaaaaaaaaaaaaaaaaaaaaaaamwwws सप० । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) "म" आदेशः । अनेन दीर्घः आ । [एकादृक्, एकादृशः, एकादृक्षः] एक इव दृश्यते । [द्वादृक्, द्वादृशः, द्वादृक्षः॥ द्विरिव दृश्यते । [युष्मादृक्, युष्मादृशः, युष्मादृक्षः] यूयमिव दृश्यते । [अस्मादृक्, अस्मादृशः, अस्मादृक्षः] वयमिव दृश्यते । 'त्यदाद्यन्य-समानादुपमानाद्' (५1१1१५२) क्विप्-टकसक्प० । 'आ द्वेरः' (२।१।४१) द० → अ० । अनेन दीर्घः आ । [यावान्] यद् । यत्परिमाणमस्याऽसौ । [तावान् तद् । तत्परिमाणमस्याऽसौ । [एतावान्] एतद् । एतत्परिमाणमस्याऽसौ । 'यत्-तदेतदो डावादिः' (७।१।१४९) अतुप्र० → अत् - "डाव्" आदि: → आव् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लोपः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४९०) दीर्घः । दीर्घयाब०' (१।४।४५) सिलोपः । ‘पदस्य' (२११८९) तलोपः ।।छ।। इदं-किमीत-की ।।३।२।१५३॥ [इदंकिमीत्की] इदं च किं च । ईच्च कीश्च । उभयत्र औ । सूत्रत्वात् लोपः । [ईदृक्, ईदृशः, ईदृक्षः] इदम् । 'दृशुं प्रेक्षणे' (४९५) दृश् । अयमिव दृश्यते । 'त्यदाद्यन्य-समानादुपमाना' (५।१।१५२) क्विप्-टक्-सक्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'यज-सृज-मज०' (२।१८७) श० → ष० । 'ष-ढोः कस्सि' (२।१।६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० । क-षसंयोगे क्ष० । अनेन इदम्० [कीदृक्, कीदृशः, कीदृक्षः] किम् । 'दृशुं प्रेक्षणे' (४९५) दृश् । क इव दृश्यते । 'त्यदाद्यन्य-समानादुपमाना' (५1१1१५२) क्विप्-टक्-सप्र० । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः । 'यज-सृज-मृज०' (२।१९८७) श० → ष० | 'ष-ढोः कस्सि' (२।१६२) १० → क० । 'नाम्यन्तस्था०' (२॥३१५) स० → ष० । क-षसंयोगे क्ष० । अनेन किम्० → की० । [इयान्] इदम् । इदं परिमाणमस्य । 'इदं-किमोऽतुरिय-किय् चास्य' (७।१।१४८) अतुप्र० → अत् - इदम् → इय० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२११४८९) तलोपः । [कियान् किम् । किं परिमाणमस्य । 'इदं-किमोऽतुरिय-किय चास्य' (७।१।१४८) अतुप्र० → अत्- किम् → किय० । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२१८९) तलोपः ॥छ।। अनञः क्त्वो यप् ॥३।२।१५४॥ [अनञः] न नञ् = अनञ् । 'नञत्' (३।२।१२५) न० → अ०, तस्य (?) (तस्मात्) । [क्त्वः] क्त्वा षष्ठी ङस् । 'लुगाऽऽतोऽनापः' (२।११०७) आलोपः । ॐ श० म० न्यासानुसन्धाने - द्वाविव । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy