SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । दृग-दृश-दृक्षे ॥३।२।१५१॥ [दृग्दृशदृक्षे] दृग् च दृशश्च दृक्षश्च = दृग्दृशदृक्षम्, तस्मिन् । [सदृक्] समान । 'दृशुं प्रेक्षणे' (४९५) दृश् । समान इव दृश्यते । 'त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टकसकौ च' (५।११५२) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा सि । दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । 'ऋत्विज्-दिश-दृश्-स्पृश्-सज्-दधृषुष्णिहो गः' (२।१।६९) श० → ग० । 'विरामे वा' (१।३।५१) ग० → क० । [सदृशः] समान इव दृश्यते । 'त्यदाद्यन्य-समानादुपमानाद्' (५।१।१५२) टप० → अ । प्रथमा सि । [सदृक्षः] समान इव दृश्यते । 'त्यदाद्यन्य-समानादुपमानाद्' (५।१।१५२) सक्प० । 'यज-सृज-मृज-राज०' (२।१।८७) श० → ष० । 'ष-ढोः कस्सि' (२।१।६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) स० → प० । कषसंयोगे क्ष० । अनेन समानस्य स० । [समानदृक् दर्शनं = दृक् । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । समाना दृक् । प्रथमा सि । दीर्घड्याब्०' (१।४।४५) सिलोपः । 'ऋत्विज्-दिश्-दृश्-स्पृश्-सज्-दधृषुष्णिहो गः' (२।१।६९) श० → ग० । 'विरामे वा' (१।३।५१) ग० → क० ॥छ।। अन्य-त्यदादेराः ॥३।२।१५२॥ [अन्यत्यदादेः] त्यद् आदिर्यस्याऽसौ त्यदादिः, अन्यश्च त्यदादिश्च = अन्यत्यदादिस्तस्य । [आः] आ प्रथमा सि । [अन्यादृक्, अन्यादृशः, अन्यादृक्षः] अन्य । ‘दृशुं प्रेक्षणे' (४९५) दृश् । अन्य इव दृश्यते । 'त्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशः टक् सकौ च' (५।१।१५२) क्विप्-टक्-सप्र० । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः । अनेन दीर्घः । [त्यादृक्, त्यादृशः, त्यादृक्षः] त्यद् । 'दृशुं प्रेक्षणे' (४९५) दृश् । स्य इव दृश्यते । [तादृक्, तादृशः, तादृक्षः] तद् । 'दृशुं प्रेक्षणे' (४९५) दृश् । स इव दृश्यते । [यादृक्, यादृशः, यादृक्षः] यद् । 'दृशुं प्रेक्षणे' (४९५) दृश् । य इव दृश्यते । 'त्यदाद्यन्य-समानादुपमानाद्।' (५।११५२) क्विप्-टक्-सक्प्र० । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन दीर्घः । [अमूदृक्, अमूदृशः, अमूदृक्षः] अदस् । ‘दृशृं प्रेक्षणे' (४९५) दृश् । असाविव दृश्यते । 'त्यदाद्यन्य-समानादुपमाना' (५।१।१५२) क्विप्-टक्-सप्र० । 'आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२११४५) द० → म० । अनेन दीर्घः । 'मादुवर्णोऽनु' (२।१।४७) ऊ । [भवादृक्, भवादृशः, भवादृक्षः] भवत् । ‘दृशं प्रेक्षणे' (४९५) दृश् । भवानिव दृश्यते । 'त्यदाद्यन्य-समानादुपमाना' (५।१।१५२) क्विप्-टक्-सक्प्र० । अनेन दीर्घः आ । .: : [त्वादृक्, त्वादृशः, त्वादृक्षः] युष्मद् । त्वमिव दृश्यते । 'त्यदाद्यन्य-समानादुपमानाद्' (५।१।१५२) क्विप्-टक्सकप० । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन' (२११११) “त्व" आदेशः । अनेन दीर्घः आ । [मादृक्, मादृशः, मादृक्षः] अस्मद् । अहमिव दृश्यते । 'त्यदाद्यन्य-समानादुपमानाद्' (५1१1१५२) क्विप्-टक् Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy