SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ न० → अ०, तस्मिन् । [ स्वस्ति राज्ञे सहराष्ट्राय ] सह राष्ट्रेण वर्त्तत इति, तस्मै । [ स्वस्ति गुरवे सहशिष्याय ] सह शिष्येण वर्त्तत इति, तस्मै । [भद्रं सहसङ्घायाचार्याय ] सह सङ्केन वर्त्तत इति, तस्मै । [ सपुत्रः, सहपुत्र आगतः ] सह पुत्रेणाऽऽगतः । 'सहस्य सोऽन्यार्थे ' ( ३।२।१४३) विकल्पेन सह० स० । [ स्वस्ति भवते सगवे, सहगवे ] सह गोभिर्वर्त्तत इति, तस्मै । [ स्वस्ति भवते सवत्साय, सहवत्साय] सह वत्सेन वर्त्तत इति, तस्मै । [स्वस्ति भवते सहलाय, सहहलाय ] सह हलेन वर्त्तत इति, तस्मै । सर्वत्र 'सहस्य सोऽन्यार्थे ' ( ३।२।१४३) सह० → स० विकल्पेन ॥ छ ॥ [ समानस्य ] समान । मान । समानं 'टा-ङसोरिन-स्यौ' (१।४।५) स्य । [धर्मादिषु ] धर्म आदिर्येषां ते समानस्य धर्मादिषु ॥ ३ ।२।१४९ ।। तुल्यं मानं = = धर्मादयस्तेषु । [धर्मा] समान । धर्म । समानो धर्मोऽस्य सः । द्विपदाद् धर्मादन् ' ( ७|३ | १४१ ) अन्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । प्र० सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याव्० ' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहूनः’ ( २।१।९१ ) नलोपः । अनेन समानस्य स० । Jain Education International ९९ परिमाणं यस्याऽसौ समानस्तस्य = समानस्य । षष्ठी इस् । [सधर्मः] समानो धर्मः । अनेन समानस्य स० । [ सजातीयः ] समाना जातिरस्य । 'जातेरीयः सामान्यवति' ( ७।३।१३९ ) ईयप्र० । [सनामा ] समानं नामाऽस्यासी । [सनाम] समानं नाम । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । अनेन समानस्य स० । [ सगोत्रः, समानगोत्रः ] समानं गोत्रमस्याऽसौ । [ सरूपः, समानरूपः ] समानं रूपं यस्याऽसौ । [ सवर्णः, समानवर्णः ] समानो वर्णो यस्याऽसौ । [ सवयाः, समानवयाः ] समानं वयो यस्याऽसौ । [सवचनः, समानवचनः ] समानं वचनं यस्याऽसौ । मतान्तरेण विकल्पे समानस्य सभावः । [ सोदर्यः ] समान । उदर । समानोदरे जातः । 'सोदर्य - समानोदय' (६।४।७८) सोदर्य निपातः ॥ छ ॥ [ सतीर्थ्यः ] समान । तीर्थ । समाने तीर्थे वसति । 'सतीर्थ्यः' (६।४।७८) इत्यनेन निपातः । सब्रह्मचारी ||३|२| १५० ॥ [ सब्रह्मचारी ] समान । ब्रह्मन् । 'चर भक्षणे च' (४१०) चर् । समाने ब्रह्मणि आगमे गुरुकुले वा व्रतं चरतीति । अनेन निपातनादेव व्रतशब्दस्य लोपः । समानो ब्रह्मचारी वा अनेन निपातः । । छ || For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy