SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । NANNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNWwwwwwwwwwwwwwwwwwwwwwVVVNM 'ईश्च्चाववर्णस्या-ऽनव्ययस्य' (४।३।१११) ई । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० →अ । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव्, तस्मिन् । [सब्रह्म साधूनाम्] सह । ब्रह्मन् । ब्रह्मणः संपत् । प्र० सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । 'अनतो लुप्' (३।२।६) अम्लोपः । [सवृत्तं सुविहितानाम्] वृत्तस्य संपत् । [सक्षत्रं यदूनाम्] क्षत्रस्य संपत् । अनेन सह० → स० । यदोरपत्यानि । 'पुरु-मगध-कलिङ्ग-सूरमस-द्विस्वरादण' (६।१।११६) अण्प्र० । 'द्रेरञणोऽप्राच्य-भर्गादेः' (६।१।१२३) अण्लोपः, तेषाम् = यदूनाम् । [सचक्रं धेहि] सह | चक्र | युगपच्चक्रेण युगपच्चक्राणि वा धेहि । [सधुरं प्राज] सह धुरा = युगपद्धुरा । 'धुरोऽनक्षस्य' (७।३।७७) अत्समासान्तः । अनेन सह० → स० । [सतृणमभ्यवहरति] सह | तृण । तृणैः सह । [समूलघातं हन्ति] सह मूलेन वर्त्तते । अनेन सह० → स० । 'हनंक हिंसागत्योः ' (११००) हन् । समूलस्य हननम् । 'हनश्च समूलात्' (५।४।६३) णम्प्र० → अम् । 'ञ्णिति घात्' (४।३।१००) हन्० → घात् । [सषड्जीवनिकमधीते श्रावकः] सह । षड्जीवनिका । षड्जीवनिकामन्तमवसानं कृत्वाऽधीते । अनेन सह० → स० । 'क्लीबे' (२।४।९७) ह्रस्वः । प्रथमा सि | ‘अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । [सलोकबिन्दुसारमधीते पूर्वधरः] सह । लोकबिन्दुसार । आ(स)लोकबिन्दुसारमन्तमवसानं कृत्वाऽधीते । ‘इंक् अध्ययने' (११०४) इ, अधिपूर्व० । वर्त्त० ते । पूर्व 'धृग् धारणे' (८८७) धृ । पूर्वान् धरते । 'आयुधाऽऽदिभ्यो धृगोऽदण्डादेः' (५।१।९४) अच्प्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । [सहपूर्वाणं शेते] पूर्व । अहन् । पूर्वमह्नः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तः - अह्न आदेशश्च । 'अतोऽहस्य (२।३।७३) णत्वम् । सह पूर्वाह्णमन्तमवसानं कृत्वा शेते । सप्तमी ङि । ‘सप्तम्या वा' (३।२।४) अम् । [सहापराहणं भुङ्क्ते] अपरमह्नः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तः-अह्न आदेशश्च । ‘अतोऽह्नस्य' (२।३।७३) णत्वम् । सह अपराह्णमन्तमवसानं कृत्वा भुङ्क्ते । सप्तमी ङि । 'सप्तम्या वा' (३।२।४) अम् । [सहयुध्वा] सह युद्धवान् । 'सह-राजभ्यां कृग्-युधेः' (५।१।१६७) क्वनिप्प० → वन् । प्र० सि । 'नि दीर्घः' (११४१८५) दीर्घः । 'दीर्घयाब०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहनः' (२११९१) नलोपः ।।छ।। ग्रन्थान्ते ॥३१२११४७॥ [ग्रन्थान्ते] ग्रन्थस्याऽन्तः = ग्रन्थान्तस्तस्मिन् । _[सकलं ज्योतिषमधीते] सह । कला । कलामन्तं कृत्वा । 'क्लीवे' (२।४।९७) ह्रस्वः । अम् । ज्योतिस् । ज्योतींषि अधिकृत्य कृतो ग्रन्थः । 'ज्योतिषम्' (६।३।१९९) इत्यनेन ज्योतिष इति निपातः । अम् । [सकाष्ठम सह । काष्ठ । काष्ठामन्तं कृत्वा । 'क्लीबे' (२।४।९७) ह्रस्वः । [समुहूर्तम्] मुहूर्तमन्तं कृत्वा । अनेन सह० → स० ।।छ।। नाशिष्यगो-वत्स-हले ॥३।२।१४८॥ [अगोवत्सहले] गौश्च वत्सश्च हलश्च = गोवत्सहलम्, न गोवत्सहलम् = अगोवत्सहलम् । 'नञत्' (३।२।१२५) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy