SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९६ अनेन तीर० तार० । [पश्चिमतारम्, पश्चिमतीरम् ] पश्चिमस्या दिशस्तीरम् । पश्चिमस्य देशस्य वा तीरम् । अनेन तीर० तार० । [पूर्वतारम्, पूर्वतीरम् ] पूर्वस्या दिशस्तीरम् । पूर्वस्य देशस्य वा तीरम् । 'सर्वादयोऽस्यादौ' ( ३।२।६१) पुंवत् । अनेन तीर० तार० । [गङ्गातीरम् ] गङ्गायास्तीरम् ||छ । सहस्य सोऽन्यार्थे ॥ ३ ।२।१४३ ॥ [ सहस्य ] सह षष्ठी डस् । [स] स प्रथमा सि । [ अन्यार्थे] अन्योऽर्थो यस्याऽसौ अन्यार्थस्तस्मिन् । [ सपुत्र आगतः, सहपुत्र आगतः ] सह । पुत्र । सह पुत्रेणाऽऽगतः । [सशिष्यः, सहशिष्य आगतः ] सह । शिष्य । सह शिष्यैरागतः । [ सलोमकः, सहलोमकः ] सह । लोमन् । सह लोम्ना वर्त्तते । 'शेषाद्वा' (७।३।१७५) कच्प्र० । अन सह० स० । [सहयुध्वा] सह 'युधिंच् सम्प्रहारे' (१२६०) युध् । सह युद्धवान् । 'सह-राजभ्यां कृग् - युधेः' (५।१।१६७) क्वनिप्प्र० → वन् । प्र० सि । 'नि दीर्घः' (१।४।८५) दीर्घः । ' दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'नाम्नो नोऽननः ' (२।१।९१ ) नलोपः । [सहकृत्वा] सह ‘डुकृंग् करणे' (८८८) कृ । सह कृतवान् । 'सह-राजभ्यां कृग्-युधेः' (५।१।१६७) क्वनिपप्र० वन् । ‘ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । प्र० सि । 'नि दीर्घः' (१।४।८५) दीर्घः । ' दीर्घड्याब्०' (१।४।४५ ) सिलोपः । ' नाम्नो नोऽननः' (२।१।९१) नलोपः । Jain Education International श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [सहजः] ‘जनैचि प्रादुर्भावे' (१२६५) जन्, सहपूर्व० । सह जातः । 'क्वचित्' (५।१।१७१) डप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । स्यात् ॥ छ। [ सहकृत्वप्रियः ] सहकृत्वा प्रियोऽस्य । [ प्रियसहकृत्वा ] प्रियः सहकृत्वाऽस्य सः बहुव्रीहौ यदुत्तरपदं तस्मात् पूर्वः सहशब्दो नास्ति, तदा सादेशो न नाम्नि || ३ |२| १४४ ॥ [नाम्नि] नामन् सप्तमी ङि । 'ई-डी वा' (२।१।१०९) अलोपः । [ साश्वत्थम् ] सह अश्वत्थेन वर्त्तते । [सपलाशम् ] सह पलाशैर्वर्त्तते । [सशिंशपम्] सह शिंशपाभिर्वर्त्तते । अनेन सह० स० । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy