SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [गन्तुकामः] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लुं गतौ' (३९६) गम् । गमनाय । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । गन्तुं कामोऽस्याऽसौ । अनेन मलोपः । [समनाः] सम् । मनस् । सम्यक मनो यस्याऽसौ । [सकामः] सम्यक कामोऽस्याऽसौ । अनेन मलोपः ।।छ।। मांसस्याऽनड़ - घञि पचि नवा ॥३।२।१४१॥ [मांसस्य मांस षष्ठी डस् । [अनयञि] अनट् च घञ् च = अनड्यञ्, तस्मिन् । [पचि] पच् सप्तमी ङि । [नवा] नवा प्रथमा सि । [मांस्पचनम, मांसपचनम्] 'डुपची पाके' (८९२) पच् । पच्यते । 'अनट्' (५।३।१२४) अनट्प्र० → अन । मांसस्य पचनम् । [मांस्पचनी, मांसपचनी] पच्यते । ‘अनट्' (५।३।१२४) अनटप्र० → अन । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) डी । मांसस्य पचनी । [मांस्पाकः, मांसपाकः] पच् । पचनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) च० → क० । मांसस्य पाकः । अनेन विकल्पे अलोपः । [मांसपक्तिः] पच् । पचनम् । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । (गा-पा-पचो भावे' (५।३।९५) क्तिप्र० → ति) । ‘च-जः क-गम्' (२।१८६) च० → क० । मांसस्य पक्तिः । [मांसदाहः] 'दहं भस्मीकरणे' (५५२) दह । दहनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'णिति' (४१३५०) उपान्त्यवृद्धिः आ । मांसस्य दाहः । [मांसदहनी] 'दहं भस्मीकरणे' (५५२) दह । दह्यते । ‘अनट्' (५।३।१२४) अनटप्र० → अन । 'अणजेयेकण' (२।४।२०) डी । मांसस्य दहनी ।।छ।। दिक्शब्दात् तीरस्य तारः ॥३।२।१४२॥ [दिकशब्दात् दिशि दृष्टः शब्दः = दिकशब्दस्तस्मात् । [तीरस्य] तीर षष्ठी डस् । [तारः] तार प्रथमा सि । [दक्षिणतारम्, दक्षिणतीरम दक्षिणा । तीर । दक्षिणस्या दिशः तीरम् । दक्षिणस्य देशस्य तीरम् । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् । अनेन तीर० → तार० । [उत्तरतारम्, उत्तरतीरम्] उत्तरस्या दिशस्तीरम् । उत्तरस्य देशस्य तीरम् । ‘सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy