________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
कृत्येऽवश्यमो लुक् ।।३।२।१३८॥ [अवश्यमः] अवश्यम् षष्ठी डस् ।
[अवश्यकार्यम्] अवश्यम् ‘डुइंग् करणे' (८८८) कृ । अवश्यं क्रियते । 'ऋवर्ण-व्यञ्जनाद्-ध्यण' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर् । अनेन मलोपः ।
[अवश्यस्तुत्यम्] अवश्यम् ‘ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे नैमित्तिकस्याऽप्यभावः' (न्या० स० वक्षस्कार(१) /सूत्र(२९)) स्तु । अवश्यं स्तूयते । 'दृ-वृग्-स्तु-जुषेति-शासः' (५।१।४०) क्यप्प० → य । हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । अनेन मलोपः ।
[अवश्यदेयम्] 'डुदांगक् दाने' (११३८) दा । अवश्यं दीयते । ‘य एच्चातः' (५।१।२८) यप्र० - आ० →ए। अनेन मलोपः ।
[अवश्यकर्तव्यम्] अवश्यं क्रियते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन मलोपः ।
[अवश्यकरणीयम् अवश्यं क्रियते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन मलोपः ।
[अवश्यंलावकः] 'लूगश् छेदने' (१५१९) लू । अवश्यंपूर्व० । अवश्यं लुनातीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव् ।।छ।।
समस्तत-हिते वा ॥३।२।१३९।। [समः] सम् षष्ठी डस् । [ततहिते॥ ततश्च हितं च = ततहितम्, तस्मिन् ।
[सततम्, संततम्] सम् 'तनूयी विस्तारे' (१४९९) तन् । संतन्यते स्म । 'क्त-क्तवतू' (५1१।१७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्डिति' (४।२१५५) नलोपः । सम्यक् ततम् ।
[सहितम्, संहितम्] सम् 'डुधांग्क् धारणे च' (११३९) धा । संधीयते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'धागः' (४।४।१५) “हि" आदेशः । सम्यग् हितम् । अनेन मलोपः । सि-अम् ।।छ।।
तुमश्च मनः-कामे ॥३।२।१४०॥ [तुमः] तुम् षष्ठी डस् । [च] च प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । [मनःकामे] मनश्च कामश्च = मनःकामम्, तस्मिन् ।
[भोक्तुमनाः] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भोजनाय । ‘क्रियायां क्रियार्थायां तुम्-णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (११३५०) ग० → क० । भोक्तुं मनो यस्याऽसौ । प्र० सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः ।
P.卐 ततश्च हितश्च ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org