________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[कदशनम्] कुत्सितमशनम् । अनेन सर्वत्र कु० → कद्० । [कूष्ट्रो देशः] कुत्सिता उष्ट्रा अस्मिन् देशे । [कुबाह्मणः ॥ कुत्सितो ब्राह्मणः ।।छ।।
रथ-वदे ॥३।२।१३१॥ [स्थवदे] रथश्च वदश्च = रथवदम्, तस्मिन् । [कद्रथः] कु । रथ । कुत्सितो रथः । कुत्सितो रथोऽस्य ।
[कद्वदः] कु । वद । वदतीति वदः । 'अच्' (५।१।४९) अच्प्र० → अ । कुत्सितो वदः । कुत्सितो वदोऽस्य सः । अनेन कु० → कद् ।
[कुरथो राजा] कुत्सितो रथो अस्य । [कुवदो मूर्खः] कुत्सितो वदोऽस्य, + सूर्यः (?) |छ।।
तृणे जातौ ॥३।२।१३२॥ [कत्तृणा नाम रौहिषाख्या तृणजातिः] कु । तृण । कुत्सितं तृणमस्याः सा । अनेन कु० → कद् । 'रुहेर्वृद्धिश्च' (उणा० ५४८) इषप्र० - वृद्धिश्च रौहिषमित्याख्या यस्याः सा = रौहिषाख्या ।
[कुतृणानि] कुत्सितानि तृणानि ।।छ।।
कत्रि ॥३।२।१३३॥ [कत्] कत् प्रथमा सि । [त्रि] त्रि सप्तमी ङि । सूत्रत्वात् लोपः ।
[कत्त्रयः] कु-किम् त्रि(२) । कुत्सितास्त्रयः-के वा त्रयः । अनेन कु-किम्→कद् । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० ।
[कत्रिः] कुत्सितास्त्रयोऽस्य सः । के वा त्रयोऽस्य । अनेन कद० ।
[किंत्रयः] के वा त्रयः । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय' (१।२।२३) अय् ।।छ।।
का-ऽक्ष-पथोः ॥३१२१३४॥
[का] का प्र०सि । सूत्रत्वात् लोपः ।
[अक्षपथोः] अक्षश्च पन्थाश्च-अक्षपन्थानम्, तयोः अक्षपथोः । सप्तमी ओस् । 'इन् डी-स्वरे लुक्' (१।४।७९) इन्लुक् ।
[काक्षः पाशकादिः] कु ‘अक्षौ व्याप्तौ च' (५७०) अक्ष् । अक्ष्यत इति । 'भाबा-ऽकत्रोंः' (५।३।१८) घञ्प्र० → अ । कुत्सितोऽक्षः, पाशकादिः । P. निन्द्यो ब्राह्मणः । P. + कुवमः = सूर्यः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org