SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । सि । 'दीर्घयाब०' (१।४।४५) सिलोपः । 'यज-सृज-मृज-राज०' (२।१८७) ज० → ष० । 'धुटस्तृतीयः' (२।१७६) ष० → ड० । 'विरामे वा' (१।३।५१) ड० → ट० । [नपात्] न ‘पांक रक्षणे' (१०६७) पा । न पातीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । निपातनात्तु नाभावः । निवेदाः] न 'विदक् ज्ञाने' (१०९९) विद् । न वेत्तीति । 'अस्' (उणा० ९५२) अस्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अभ्वादेर०' (१।४।९०) दीर्घः । [असत्यः] सत्सु साधुः । 'तत्र साधौ' (७।१।१५) यप्र० । न सत्योऽसत्यः । [नासत्यः] नासत्योऽनेन निपातः । नासत्यौ नासत्यौ अनेन निपातः । [नमुचिः] न 'मुच्छूती मोक्षणे' (१३२०) मुच । न मुञ्चतीति । 'नाम्युपान्त्य-क-गृ-शू-पृ-पूभ्यः कित्' (उणा०६०९) किद् इप्र० । [नकुलः] नास्य कुलमस्तीति । अनेन नकुलनिपातः । [नभ्राट्] न न भ्राजते किन्तु भ्राजत एव । [नपात् न न पातीति किन्तु पाति । [नवेदाः] न न वेत्तीति किन्तु वेत्त्येव । [नकुलः] न न कुलमस्त्यस्य । [नपुंसकम्] न पुम्स् । न स्त्री । न पुमान्, न स्त्रीति । 'स्त्रियाः पुंसो द्वन्द्वाच्च' (७।३।९६) अत्समासान्तः । ‘पृषोदरादयः' (३।२।१५५) निपातनात् नपुंसकं पाश्चात्येषु एको नलोपो निपातः पृषोदरादित्वात् । नक्षत्रम्] ‘क्षिं क्षये' (१०) क्षि । 'क्षर संचलने' (९७१) क्षर्, नपूर्व० । न क्षीयते - न क्षरति वा । ॐ उणादयः त्रटप्र० →त्र । नक्रः] 'क्रमू पादविक्षेपे' (३८५) क्रम् । 'डुक्रींगश् द्रव्यविनिमये' (१५०८) क्री, नपूर्व० । न क्रामति, न क्रीणाति वा । अनेनैव निपातनात् डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [नाकः] न | अक | नास्मिन्नकं = दुःखमस्ति । [नग्नः] न । ग्न । न विद्यन्ते ग्नाः = श्रियः छन्दांसि वाऽस्य । [नागः] न अगः-नागः । [नभागः] न विद्यते भागोऽस्य । [नाराचः] न । अर । 'अञ्चू गतौ च' (१०५) अश् । न अरमत्यर्थमञ्चन्ति(ति) । 'मूलविभुजादयः' (५।१।१४४) कप्र० → अ । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । ॐ त्रट्' (उणा० ४४६) सूत्रेण सर्वधातुभ्यस्त्रट्प्रत्ययो भवति । 'वृग् - नक्षि-पचि-वच्यमि-नमि-वमि-वपि-वधि-यजि-पति- कडिभ्योऽत्रः' (उणा० ४५६) सूत्रेण ‘णक्ष गतौ' धातोः अत्रप्रत्यये नक्षत्रं सिद्धं भवति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy