SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ [पामनपुत्रः] पामाऽस्याऽस्तीति । 'नोऽङ्गादेः' (७।२।२९) नप्र० । 'ड्यापो बहुलं नाम्नि ' (२।४।९९) पुंवत् (ह्रस्वः) । अथवा पामनशब्दः प्रकृतिः । पामनश्चासौ पुत्रश्च । [न भुङ्क्ते ] 'भुजंप् पालना-ऽभ्यवहारयोः ' (१४८७) भुज् । वर्त्त० ते । 'रुधां स्वराच्श्नो नलुक् च' ( ३।४।८२) श्नप्र० → न । 'श्ना-ऽस्त्योर्लुक्' (४।२।९० ) अलोपः । 'च-जः क - गम्' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) ग० क० । म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न०ड० ॥छ । [त्यादौ ] + तिरादिर्यस्याऽसौ त्यादिस्तस्मिन् । [अपचसि त्वं जाल्म !] 'डुपचष् पाके' (८९२) पच् । वर्त्त० सिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । न पचसि । युष्मद् । प्र० सि । 'त्वमहं सिना प्राक् चाऽकः ' (२।१।१२) त्वम् । [न पाचको जाल्मः ] पच् । पचतीति । 'णक-तृचौ' (५।१।४८) णकप्र० अक । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः ।।छ।। [ अप्राणिनि ] न प्राणी अप्राणी । 'नञत्' ( ३।२।१२५) न० अ०, तस्मिन् । [नगः पर्वतः, अगः पर्वतः ] न अम (३९२) द्रम (३९३) - हम्म (३९४ ) - मीमृ ( ३९५) - 'गम्लं गतौ ' ( ३९६) गम् । न गच्छतीति । ‘नाम्नो गमः खड् डी च०' (५।१।१३१) डप्र० अ । ' डित्यन्त्यस्वरादेः' ( २।१।११४) अम्लोपः । अ० । पर्वन् । पर्वाण्यस्य सन्ति । मरुत्-पर्वणस्तः' (७।२।१५) अनेन वा नगनिपातः । ‘नञतू' ( ३।२।१२५) न० तप्र० । 'नाम्नो नोऽनहूनः ' (२।१।९१) नलोपः । त्यादी क्षेपे || ३ |२| १२६॥ = [नगाः-वृक्षाः, अगाः-वृक्षाः] न गच्छन्तीति । 'नाम्नो गमः खड्-डौ च० ' (५।१।१३१) डप्र० अ । 'डित्यन्त्यस्वरादेः’ (२।१।११४) अम्लोपः । अनेन निपातः । प्रथमाबहु० जस् । 筑 P. + तिरादिर्यस्य तत्, तस्मिन् । * ८९ [ अगो वृषलः शीतेन ] न गच्छतीति । 'नाम्नो गमः खड्-डौ च० ' ( ५1१1१३१) ड० अ । 'डित्यन्त्यस्वरादेः' ( २।१।११४ ) अम्लोपः । नञत्' ( ३।२।१२५) न० अ० । प्र० सि ॥छ । श० म० न्या० पामनस्य पुत्रः । नगोऽप्राणिनि वा ।।३।२।१२७॥ नखादयः ||३|२।१२८॥ [नखादयः] नख आदिर्येषां ते । प्र० जस् । 'जस्येदोत्' (१।४।२२) इ० ए० । 'एदैतोऽयाय्' (१।२।२३) अय् । [नखः ] 'खनूग् विदारणे' (९१३) खन् । खन्यते इति खम् । 'खनो ड-डरेकेकवक घं च' (५।३।१३७) डप्र० → अ । ‘डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः । नास्य खमस्तीति । [नभ्राट् ] न राजृग् (८९३) 'टुभ्राजि दीप्तौ ' ( ८९४ ) भ्राज् । न भ्राजते इति । दिद्युद् ददृद्- जगज्जुहू-वाक्-पाट्धी-श्री-टू-सू-ज्वायतस्तू-कटपू-परिव्राट् भ्राजादयः क्विप्' (५।२।८३) क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । प्र० लघुवृत्ती धातुपारायणे च-अवदारणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy