________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[समीचः] समञ्चन्तीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन “समि" आदेशः । द्वि० शस्'। 'अच्च् प्राग् दीर्घश्च' (२।११०४) अच्० → च्० - पूर्वस्य दीर्घः ।
[समीचा समञ्चतीति क्विप् । 'अथोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन “समि" आदेशः । तृ० टा । “अच्च प्राग् दीर्घश्च' (२।१।१०४) अच्० → च्० - पूर्वस्य दीर्घः ।
[समीची] समञ्चतीति । क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन “समि" आदेशः । ‘अञ्चः' (२।४।३) डी । ‘अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० → च्० - पूर्वस्य दीर्घः ।
[समीचीनः] सम्यडेच । 'अदिस्त्रियां वाऽञ्चः' (७।१।१०७) ईनप्र० । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्छ → च्० - पूर्वस्य दीर्घः ।
[प्राङ् प्र ‘अञ्चू गतौ च' (१०५) अच् । प्राञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । प्र०.सि । 'अचः' (१।४।६९) नोऽन्तः । 'युजञ्च-क्रुञ्चो नो ङः' (२११७१) न० → ड० ।
[प्राञ्चौ] प्राशत इति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । प्र० औ । 'अचः' (१।४।६९) नोऽन्तः ।
[सहयुक] सह 'युजूंपी योगे' (१४७६) युज् । सह युनक्तीति क्विप् । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । प्र० सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'च-जः क-गम' (२।१।८६) ज० → ग० । 'विरामे वा' (१३
[संयुक्] सम् ‘युजूंपी योगे' (१४७६) युज् । संयुनक्तीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्र० सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'च-जः क-गम्' (२।११८६) ज० → ग० । 'विरामे वा' (११३५१) ग० → क० ।
[सहाञ्चनम्] सह 'अशू गतौ च' (१०५) अश् । सह अञ्च्यते । 'अनट्' (५।३।१२४) अनट्प्र० → अन । [समञ्चनम्] समञ्च्य ते । 'अनट्' (५।३।१२४) अनट्प्र० → अन ।।छ।।
__ तिरसस्तियति ॥३।२।१२४॥ [तिरसः] तिरस् षष्ठी डस् । [तिरि] तिरि प्रथमा सि । सूत्रत्वात् लोपः । [अति] अत् सप्तमी ङि ।
[तिर्य तिरस् । 'अशू गतौ च' (१०५) अञ्च । तिरोऽयतीति । 'अव्ययस्य को द् च' (७।३।३१) अप्र० । तिरको वा अञ्चतीति । 'क्विप्' (५।११४८) क्विप्प० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अने तिरस्० → तिरि० । प्र० सि । 'अचः' (१।४।६९) नोऽन्तः । 'दीर्घङ्याब' (१।४।४५) सिलोपः । 'पदस्य' (२।१८९) चलोपः । 'युजञ्च-क्रुश्चो नो ङः' (२।१७१) न० → ड० ।
तिर्यञ्चौ तिरोऽशत इति । 'क्विप्' (५1१1१४८) क्विप्प० । 'अञ्चोऽनर्चायाम्' (४२१४६) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन तिरस्० → तिरि० । प्र० औ । 'अचः' (१।४।६९) नोऽन्तः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → अ० ।
तिर्यञ्चः तिरोऽयन्तीति । 'क्विप' (५1१1१४८) क्विपप्र० । 'अञ्चोऽनर्चायाम्' (४२१४६) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन तिरस्० → तिरि० । प्र० जस् । ‘अचः' (१।४।६९) नोऽन्तः । 'म्नां धुड्वर्गेऽन्त्योऽ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org