SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य तृतीयः पादः ।। लोप होइ, ससि पादपूरणी न होइ तत होइ । [सैष दाशरथी रामः] तद् । प्रथमा सि । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः । 'तः सौ सः' (२/११४२) त० → स० । एतद् । प्रथमा सि । 'आ ढेरः' (२।११४१) द० → अ० । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । 'तः सौ सः' (२१११४२) त० → स० । 'नाम्यन्तस्था०' (२।३।१५) स० → प० । अनेन सिलोपः । 'एतदश्च व्यञ्जनेऽनग्-नसमासे' (१।३।४६) सिलोपः । दशरथस्याऽपत्यं = दाशरथिः । अत इञ्' (६।१।३१) इअप० →इ । 'वृद्धिः स्वरेप्वादेणिति तद्धिते' (७।४।१) वृद्धिः दा । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । प्रथमा सि । ‘सो रुः' (२।१।७२) स० → र० । ‘रमिं क्रीडायाम्' (९८९) रम् । रमते = क्रीडतीति रामः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० (?) ] ('वा ज्वलादि०' (५।११६२) णप्र०) । “णिति' (४।३।५०) उपान्त्यवृद्धिः । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । 'रः पदान्ते०' (११३५३) विसर्गः । 'रो रे लुग दीर्घश्चादिदुतः' (१।३।४१) रस्य लोपःइदीर्घः । [सैष राजा युधिष्ठिरः] तद् । प्रथमा सि । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'तः सौ सः' (२।१।४२) त० → स० । 'आत्' (२।४।१८) आप् । एतद् । प्रथमा सि । राजन् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घयाव०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहः' (२११।९१) नलोपः । युध् । सप्तमी ङि । युधि स्थिरः = युधिष्ठिरः, समासकालेऽलुप्समास एषः । ‘गवि-युधेः स्थिरस्य' (२।३।२५) स० → ष० । 'तवर्गस्य०' (१।३।६०) थ० → छ । [सौषधीरनुरुध्यते] सा पूर्ववत् । 'उषू दाहे' (५२९) उष् । ओषति रोगात् (न्) । 'उषेरधिः' (उणा० ६७५) अधिप्र० । प्रथमा सि । 'रुधूपी आवरणे' (१४७३) रुध, अनुपूर्व० । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य ।।छ।। एतदश्च व्यञ्जनेऽनग-नजसमासे ।।१३।४६।। एतदश्च व्यञ्जने] एतद् पञ्चमी इसि । च अव्यउ । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । व्यञ्जन सप्तमी ङि, 'अवर्णस्ये०' (१२।६) ए. । [अनग-नजसमासे] * ना समासः = नसमासः, अक् च नसमासश्च = अक्नसमासः, न अक्नङ्समासः = अननसमासः, तस्मिन्, सप्तमी डि, 'अवर्णस्ये०' (१।२।६) ए. । [एष ददाति] एतद् । प्रथमा सि । 'डुदांग दाने' (११३८) दा । वर्त्तः तिव् । 'हवः शिति' (४।१।१२) दा सउं द्विर्वचनु । 'हूस्वः' (४।१।३९) दा० → द० । [परमैष करोति परम अग्रे एतद् । परमश्चासावेषश्च = परमैपः । प्रथमा सि । 'आ द्वेरः' (२११४१) द० → अ० । 'लुगस्यादेत्यपदे' (२/१1११३) अलोपः । 'तः सौ सः' (२११४४२) त० → स० । 'नाम्यन्तस्था०' (२।३।१५) स० → प० । [परमस ददाति] परमश्चासौ सश्च = परमसः । [को दाता] किम् । प्रथमा सि । 'किमः कस्तसादौ च' (२११४०) क० । 'डुदांगक दाने' (११३८) दा । श्वस्तनी ता। [यो धन्यः] धनं लब्धा = धन्यः । 'धन-गणालब्धरि' (७।११९) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [एतौ गच्छतः] एतद् । प्रथमा औ । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । P. * नञ् चासो समासश्च । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy