________________
अथ प्रथमाऽध्यायस्य तृतीयः पादः ॥
(४।१।३९) लु । 'स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्त्रोर्व्यञ्जनादेः परोक्षायाः' (४।४।८१) इट् । 'हान्तस्थाञीड्भ्यां वा' (२/१९८१) धस्य ढत्वं । 'अदीर्घाद् विरामैकव्यञ्जने' (१1३1३२) द्वित्वं । 'तृतीयस्तृतीय-चतुर्थे' (१३१४९) ढ० → ड० ।
[आतृढम्] 'तृहौ हिंसायाम्' (१४२२) तृह्, आयूर्व० । आतृह्यते स्म । 'क्त-क्तवतू' (५।१1१७४) क्तप्र० → त० । 'हो धुट् पदान्ते' (२१११८२) ह० → ढ० । 'अधश्चतुर्थात्०' (२।१७९) त० → ध० । 'तवर्गस्य०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः । . .
[आवृढम्] 'वृहौत् उद्यमे' (१४२१) वृह, आयूर्व० । आवृह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'हो धुट-पदान्ते' (२।१९८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० →ध० । 'तवर्गस्य श्चवर्ग०' (१३६०) ध० → ढ० । 'ढस्तड्ढे' (११३४२) ढलोपः ।
ननु ‘ण-षमसत्परे स्यादिविधौ च' (२१११६०) इति ढस्य लोपस्याऽसिद्धत्वाद् गुणो भविष्यति, किं अन्वित्यधिकारेण ? उच्यते – 'असिद्धं बहिरङ्गमन्तरङ्गे (न्यायसंग्रहः १।२०) इति तत्र पूर्वपदाश्रितमन्तरङ्गं, परपदाश्रितं बहिरङ्ग, अल्पाश्रितमन्तरङ्ग, बह्वाश्रितं बहिरङ्ग, प्रकृत्याश्रितमन्तरङ्ग, प्रत्ययाश्रितं बहिरङ्गं इति न्यायात् अन्तरले दीर्घत्वे बहिरङ्गो गुणे(णो)ऽसिद्धः स्यात, तेनाऽन्विति वाच्यमेव ।
[लेढा] 'लिहीक् आस्वादने' (११२९) लिह् । श्वस्तनी ता । शेषं (१।३।४२) सूत्रवत् साध्यः । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए।
[मोढा] 'मुहौच वैचित्ये' (१२३८) मुहू । श्वस्तनी ता । शेषं (११३४२) सूत्रवत् साध्यः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ० ।।छ।।
सहि-वहेरोच्चाऽवर्णस्य ।।१३।४३।। सहि-वहेरोच्चाऽवर्णस्य सहिश्च वहिश्च = सहिवहि, तस्य = सहिवहेः, षष्ठी डस्, ‘डित्यदिति' (१।४।२३) इ० → ए० । 'एदोद्भ्यां सि-ङसो रः' (१।४।३५) ङस्० → र० । ओत् प्रथमा सि । दीर्घड्याव्०' (१।४।४५) सिलोपः । च अव्यउ । 'धुटस्तृतीयः' (२।१।७६) त० → द० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → च० । अकारेणोपक्षितो वर्णोऽवर्णस्तस्य = अवर्णस्य, षष्ठी डस्, ‘टा-डसोरिन-स्यौ' (१।४।५) स्य ।
सोढा] 'पहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२१३१९८) ष० → स० । सहति(ते)इति सोढा । 'णक-तृचौ' (५।११४८) तृचप्र० →तृ । प्रथमा सि । 'ऋदुशनस-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । ‘हो धुट्-पदान्ते' (२।१।८२) ह०→ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवर्गी' (१।३।६०) ध० → ढ० । सूत्रकार्यम् ।
[वोढा] 'वहीं प्रापणे' (९९६) वह् । वहतीति वोढा । शेषं 'सोढा' वत् ।
[उदवोढाम्] 'वहीं प्रापणे' (९९६) वह्, उद्पूर्व० । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३७०) सिच्लोपः । ‘हो धुट्-पदान्ते' (२।१९८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध० → ढ० । 'अड् धातोरादिस्तिन्यां चाऽमाडा' (४।४।२९) अडागमः । सूत्रकार्यम् ।
[ऊढः] ‘वहीं प्रापणे' (९९६) वह् । उयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त० । 'यजादि-वचेः किति' (४।१।७९) य्वृत् व० → उ० । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात्०' (२।१७९) त० →ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्डे' (१।३।४२) ढलोपः - पूर्विला दीर्घः छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org