SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [क्रान्त्वा] 'क्रमू पादविक्षेपे' (३८५) क्रम् । क्रमणं पूर्वं = क्रान्त्वा । 'प्राकाले' (५।४।४७) क्त्वाप्र० → त्वा । 'क्रमः क्त्वि वा' (४1१1१०६) दीर्घः । अनेन । [भ्रान्त्वा] 'भ्रमू चलने' (९७०) भ्रम् । भ्रमणं पूर्वं = भ्रान्त्वा । 'प्राक्काले' (५।४।४७) क्त्वाप० → त्वा । 'अहन् पञ्चमस्य क्वि-क्डिति' (४।१।१०७) दीर्घत्वं । अनेन । [आहन्महे] 'हनंक हिंसा-गत्योः ' (११००) हन, आड़पूर्व० । वर्त्त० महे । [प्रहन्मः] हन्, प्रपूर्व० । वर्त्त मस् । 'व-मिवा' (२।३।८३) विकल्पे णत्वम् । [गम्यते] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम- (३९५) 'गम्लं गतौ' (३९६) गम् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य. । [हन्यते] 'हनंक हिंसा-गत्योः' (११००) हन् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । [भवान् करोति] भवान् (१।३।८) सूत्रवत् । 'डुकंग करणे' (८८८) कृ | वर्त० तिव् । 'कृग्-तनादेरुः' (३।४।८३) उ. । 'उ-श्नोः' (४।३।२) गु० ओ । 'नामिनो गुणोऽक्डिति' (४।३।१) अर् । अनेन न. । व्यक्ता ] 'अऔप व्यक्ति-म्रक्षण-गतिषु' (१४८८) अग, विपूर्व० । श्वस्तनी ता । 'च-जः क-गम्' (२।१९८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (११३५०) ग० → क० । अनेन । [व्यक्तुम्] व्यञ्जनाय = व्यक्तुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प० । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिट:' (१३५०) ग० → क० । अनेन || छ ।। शिड्-हेऽनुस्वारः ।।१३।४०॥ [शिड-हेऽनुस्वारः] शिट् च हश्च = शिड्हं, तस्मिन् = शिड्हे, सप्तमी डि, 'धुटस्तृतीयः' (२।१७६) ट० → ड०। अनुस्वार प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते विसर्गस्तयोः' (१।३५३) विसर्गः । ननु हस्य शिट्संज्ञां कृत्वा "शिय्यनुस्वारः' इत्येवोच्यताम्, सत्यम् - यदि हग्रहणं न क्रियते तदा 'औजढद्' इत्यत्र 'अघोषे शिटः' (४।१।४५) इति हस्य लोपेऽनिष्टं रूपं स्यात् । [पुंसि] 'पांक रक्षणे' (१०६७) पा । पाति = रक्षति पुरुषार्थचतुष्टयमिति पुमान् । 'पातेईम्सुः' (उणा० १००२) डिद् उम्सुप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११३) आलोपः । सप्तमी ङि । [गस्यते] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मी (३९५) - ‘गम्लुं गतौ' (३९६) गम् । भविष्यन्ती स्यते । [दंशः] 'दंशं दशने' (४९६) दंश् । दंशनं = दंशः । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । प्रथमा सि । *[सुदंशि कुलानि] ‘दंशं दशने' (४९६) दंश्, सुपूर्व० । सुष्ठु दशन्ति यानि कुलानि तानि = सुदंशि कुलानि । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः । प्रथमा जस् । ‘नपुंसकस्य शिः' (१।४।५५) शि० [वपूंषि] वपुस् मांडियइ । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० । ॐ वृहन्न्यासे श० न्यासानुसन्धाने - शोभना दिशो येषां कुलानामिति वहुवीहौ जसो 'नपुंसकस्य शिः' (१।४५५) इति शौ । 'धुटां प्राक्' (१।४।६६) इति नागमेऽनेनानुस्वारे सुर्दिशि कुलानि । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy