SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य तृतीयः पाद: ।। ६२ र० । पदस्याऽन्तः = पदान्तः, न प्रदान्तोऽपदान्तः, 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् = अपदान्ते । [गन्ता] अम (३९२) - द्रम (३९३) - हम्म (३९४)- मीम (३९५) - 'गम्लुं गतौ' (३९६) गम् । गच्छतीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेहः' (१।४।८४) डा । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अथवा श्वस्तनी ता । अनेन । [गन्तुम् गमनाय = गन्तुम् । ‘क्रियायां क्रियार्थायां तुम्-णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । अनेन । [शङ्किता] रेकृङ् (६१६) - 'शकुङ् शङ्कायाम्' (६१७) शक् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नागमु । श्वस्तनी ता । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इडागमः । अनेन कार्यम् । [शङ्कितुम्] शङ्कनाय = शङ्कितुम् । ‘क्रियायां क्रियार्थायां तुम् णकच्०' (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इडागमः । अनेन कार्यम् । [अञ्चिता] 'अञ्चू गतौ च' (१०५) अ । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इडागमः । अनेन | [अञ्चितुम्] अञ्चनाय = अञ्चितुम् । 'क्रियायां क्रियायां०' (५।३।१३) तुम्प्र० । [कुण्ठिता] 'कुटु आलस्ये च' (२२४) कुठ् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । श्वस्तनी ता । 'स्ताद्यशितो०' (४।४।३२) इडागमः । अनेन । [कुण्ठितुम्] कुण्ठनाय = कुण्ठितुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प० । ‘स्ताद्यशितो०' (४।४।३२) इडागमः । अनेन । [नन्दिता] 'टुनदु समृद्धौ' (३१२) नद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । श्वस्तनी ता । 'स्ताद्यशितो०' (४।४।३२) इडागमः । अनेन । [नन्दितुम्] नन्दनाय = नन्दितुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प० । ‘स्ताद्यशितो०' (४।४।३२) इडागमः । अनेन । कम्पिता] ‘कपुङ चलने' (७५७) कप । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । श्वस्तनी ता. । 'स्ताद्यशितो०' (४।४।३२) इडागमः । अनेन । [कम्पितुम्] कम्पनाय = कम्पितुम् । ‘क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । ‘स्ताद्यशितो०' (४।४।३२) इडागमः । अनेन । [कुर्वन्ति] 'डुकंग करणे' (८८८) कृ । वर्त० अन्ति । ‘कृग-तनादेरुः' (३।४।८३) उ । 'नामिनो गुणोऽक्डिति' (४।३।१) अर् । 'अतः शित्युत्' (४१२८९) अ० → उ० । 'इवर्णादरस्वे०' (१।२।२१) व् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । [कृषन्ति] 'कृषीत् विलेखने' (१३१९) कृष् । वर्त० अन्ति । 'तुदादेः शः' (३।४।८१) शप्र० → अ । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । [विसम्भः] ‘सम्भूङ् विश्वासे' (९५१) सम्भ, विपूर्व० । विस्त्रम्भणं = विस्त्रम्भः । 'भावा-ऽकोंः ' (५।३।१८) घजप०। [संरम्भः] 'रभिं राभस्ये' (७८५) रभ, संपूर्व० । संरम्भणं = संरम्भः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'रभोऽपरोक्षा-शवि' (४।४।१०२) नोऽन्तः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy