SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य तृतीयः पादः ।। ६७ [वत्स्सः , वत्सः] 'वत्सः' (११२७) सूत्रवत् । अनेन । कष्षीरम, क्षीरम्] 'घस्तूं अदने' (५४४) घस् । अद्यते तदिति क्षीरम् । 'घसि-वशि-पुटि-कुरि कुलिकाभ्यः कित्' (उणा० ४१९) किद् ईरप्र० । 'घस्-वसः' (२।३।३६) षत्वं । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक्' (४२१४४) अस्य लुक् । 'अघोषे प्रथमोऽशिटः' (११३५०) घस्य कत्वं । अनेन । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [अप्सराः, अप्सराः] अप+ सुं गतौ' (२५) सृ । अद्भ्यः सरन्ति स्म । 'आपोऽपाप्ताप्सराब्जाश्च' (उणा० ९६४) अस्प० - अप्सरादेशे प्रथमा सि । 'अभ्वादेरत्वसः सौ' (११४९०) दीर्घः । दीर्घड्याव्०' (१।४।४५) सिलोपः । अनेन । अमीषु चतुर्यु उदाहरणेषु 'शिट्याद्यस्य द्वितीयो वा' (१३५९) इति सूत्रेण शिटि परे प्रथमस्य द्वितीयो वा भवति । [मथ्नाति] 'मन्थश् विलोडने' (१५४७) मन्थ् । वर्त्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । [ख्याति] ख्यांक प्रकथने (१०७१) ख्या । वर्त्त० तिव् ॥ छ ।। न रात् स्वरे ।।१।३।३७।। [न रात् स्वरें] न अव्यउ । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । र पञ्चमी सि । 'डे-डस्योर्याऽऽतौ' (१।४।६) आत् । स्वर सप्तमी ङि । 'अवर्णस्येवर्णादिनैदोदरल्' (१२।६) ए । [दर्शनम्] 'दृशं प्रेक्षणे' (४९५) दृश् । दृश्यतेऽनेनेति दर्शनं । ‘करणा-ऽऽधारे (५।३।१२९) अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) अर् । अनेन । [विमर्शः] 'मृशंत् आमर्शने' (१४१६) मृश्, विपूर्व० । विमर्शनं = विमर्शः । भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) अर् । [कर्षति] 'कृषं विलेखने' (५०६) कृष् । वर्त्तः तिव् । कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) अर् । [वर्षति] जिषू (५२२) - विषू (५२३) - मिषू (५२४) - निषू (५२५) - पृषू (५२६)* 'वृषू सहने च' (५२७) वृप । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) अर् । [वासम्] 'बुंग व्यक्तायां वाचि' (११२५) बू । बुवन्तं (न्तः) सीदन्ति अस्यामिति वृसी, पृषोदरादित्वान्निपात्यते । वृस्या इदं = वार्सम् । 'तस्येदम्' (६।३।१६०) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आर् | [कार्सरम्] 'डुकृग् करणे' (८८८) कृ । क्रियते पर्वदिने कृसरा । 'कृ-धू तन्यृषिभ्यः कित्' (उणा० ४४०) कित् सरप्र० । 'आत्' (२।४।१८) आप् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । कृसराया इदं = कार्सरम् । तस्येदम्' (६।३।१६०) अण्प्र० । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आर् । [तच् श्शेते] तद् शेते । पूर्वसूत्रेण द्वित्वम् । [षट् ष्षण्डे] षष् षण्डे । पूर्वसूत्रेण द्वित्वम् । [वत्स्सः] वत्सः । पूर्वसूत्रेण द्वित्वम् । [वर्चः] 'वर्चि दीप्तौ' (६५३) वर्च् । वर्च्यते । 'अस्' (उणा० ९५२) अस्प० । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः ।।छ।। 卐 उक्तं च धातुपारायण-क्रियारत्नसमुच्चययोः 'वृषू सेचने' । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy