SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका । NNNNNNNNNNNNNNNNNNNN शव्' (३।४।७१) शब् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय्' (१।२।२३) अय् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । अनेन । ननु किमर्थं इदं सूत्रं ? यतो दीर्घमाश्रित्य पूर्वेणैव द्वित्वं वा भविष्यति, सत्यं इदमेव ज्ञापकं दीर्घापदिष्टं कार्यं न प्लुतस्य । [इस्वदीर्घापदिष्टं कार्यं न प्लुतस्य' न्यायसंग्रहः-द्वितीयो वक्षस्कारः । सूत्र-१६] ॥छ।। स्वरेभ्यः ।।१।३।३०॥ [स्वरेभ्यः] स्वर । पञ्चमी भ्यस् । ‘एद् बहुस्भोसि' (१।४।४) ए । [इच्छति] 'इषत् इच्छायाम्' (१४१९) इष् । वर्त्तः तिन् । 'तुदादेः शः' (३।४।८१) शप्र० → अ । गमिषद्यमश्छः' (४।२।१०६) १० → छ० । अनेन द्वित्वम् । 'अघोषे०' (१।३।५०) छ० → च० । [गच्छति] 'गम्लुं गतौ' (३९६) गम् । वर्त्तः तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'गमिषद्यमश्छः' (४।२।१०६) म० → छ० । अनेन द्वित्वम् । 'अघोषे०' (११।३।५०) छ० → च० । [हीच्छति] 'हीछ लज्जायाम्' (१२४) हीछ । वर्त्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन द्वित्वम् । 'अघोषे०' (१।३।५०) छ० → च० ।। म्लेच्छति] 'म्लेछ अव्यक्तायां वाचि' (११९) म्लेछ । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । अनेन द्वित्वम् । 'अघोषे०' (१।३।५०) छ० → च० । [चाच्छायते] 'छोंच् छेदने' (११४९) छो । ‘आत् सन्ध्यक्षरस्य' (४।२।१) छा । भृशं पुनः पुनर्वा छयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यय० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) छ० → च० । 'आ-गुणावन्यादेः' (४।११४८) आ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अनेन द्वित्वम् । 'अघोषे०' (१।३।५०) छ० → च० । [चोच्छुप्यते] 'छुत् स्पर्श' (१३७५) छुप् । भृशं पुनः पुनर्वा छुपति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) छ० → च० । 'आ-गुणावन्यादेः' (४।१।४८) गु० चो । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२१११३) अलोपः । अनेन द्वित्वम् । 'अघोषे०' (१३५०) छ० → च० । [वृक्षच्छाया] वृक्षस्य छाया । [वाक्छत्रम्] वाचा छत्रं । प्रथमा सि || छ । हादर्हस्वरस्याऽनु नवा ।।१३।३१।। [दिर्हस्वरस्याऽनु नवा] र् च हश्च = र्हम्, तस्मात् = हात्, पञ्चमी डसि, 'डे-डस्योर्याऽऽतौ' (१।४।६) आत् । र् च हश्च स्वरश्च = र्हस्वरम्, न र्हस्वरं = अर्हस्वरम्, 'नञत्' (३।२।१२५) न० → अ०, तस्य = अर्हस्वरस्य, षष्ठी डस्, 'टा-डसोरिन-स्यौ' (१।४।५) स्य । अनु अव्यउ । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । नवा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [अर्कः, अर्कः] 'अर्च पूजायाम्' (१०४) अर्छ । अर्च्यते = पूज्यते सामान्यजनैरित्यर्कः । भावा-ऽकर्ताः' (५।३।१८) घञ्प्र० अ० । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) च० → क० । अनेन द्वित्वं । अथवा 'कंक गतौ' (११३५) ऋ । इयर्ति = गच्छति नभस्थाले इत्यर्कः । 'भीण-शलि-वलि-कल्यति-मज़र्चि-मृजि-कु-तु-स्तु-दा-धा-रा-त्रा-का-पा-निहा-नशुभ्यः कः' (उणा० २१) कप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) अर् । अनेन । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy