________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[ किं हलयति, किवँ हलयति ] किम् । द्वितीया अम् । 'अनतो लुप्' (१।४।५९) अम्लोपः । 'हल चलने ' (१०५६) हृल् । हलन्तं प्रयुङ्क्ते । शेषं 'किं हलयति' वत् ।
५४
[किं ह्रादते, किलूँ ह्रादते ] 'ह्लादैङ् सुखे च' (७३८) ह्राद् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । [ किं हसति] 'हसे हसने ' ( ५४५) हस् । वर्त्त० तिव् । शव् ।
[ किं ज्वलयति ] ज्वल दीप्तौ च (१०५८) ज्वल् । वर्त्त० तिव् । शब् ॥ छ ॥
सम्राट् ||१|३|१६॥
[सम्राट्] सम्राज् । प्रथमा सि । 'दीर्घड्याव् ० ' (१।४।४५) सिलोपः । ' यज- सृज - मृज- राज० ' (२।१।८७) प० । 'धुटस्तृतीयः' (२।१।७६) प०ड० । 'विरामे वा' (१।३।५१) ड०ट० ।
[सम्राट् ] 'राजग् दीप्तौ' (८९३) राज्, संपूर्व० । समन्ताद्राजते । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याव्०' (१।४।४५) सिलोपः । 'यज- सृज - मृज-राज-भ्राज-भ्रस्ज-व्रश्च परिवाजः शः पः' (२।१।८७) ज० प० । धुटस्तृतीयः' (२।१।७६) प०ड० । 'विरामे वा' (१।३।५१) ड० ८० । अनेन ।
[ सम्राजौ ] समन्ताद्राजेते | 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन । [सम्राजः] समन्ताद्राजन्ते । 'क्विप्' (५।१।१४८) क्विपूप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन ॥ ॥ -णोः क-टावन्ती शिटि नवा ||१|३|१७||
[ङ्-णोः] ङ्च ण् च ङ्णौ, तयोः = ङणोः, षष्ठी ओस् ।
[क- टावन्तौ ] कश्च टश्च = कौ । प्रथमा औ । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२ ) औ । अन्त प्रथमा औ । 'ऐदौत् सन्ध्यक्षरैः ' (१।२।१२) औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[शिटि नवा ] शिट् सप्तमी ङि । नवा प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
[प्राक् शेते, प्राक् छेते, प्राङ् शेते] 'अञ्चू गतौ च' (१०५) अञ्च् प्रपूर्व० । प्राञ्चतीति । शेषं (१।३।३) सूत्रवत् । शेते अनेन क् विकल्पेन । 'प्रथमादधुटि शश्छ: ' (१।३।४) श०
छ० ।
[सुगणट् शेते, सुगण्ट् छेते, सुगण् शेते] 'गणण् संख्याने' (१८७४) गण, सुपूर्व० । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच् । ‘अतः’ (४।३।८२) अलोपः । सुष्ठु गणयतीति सुगण् । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'णेरनिटि' ( ४ | ३ |८३) णिच्लोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । प्रथमा सि । दीर्घड्याव्०' (१।४।४५) सिलोपः । शेते । अनेन ट् विकल्पेन । 'प्रथमादधुटि शश्छ: ' (१।३।४) श० छ० 1
[ वण्ट् षण्डे, वण् षण्डे] अण (२५९) - रण (२६०) - 'वण शब्दे' (२६१) वण् । वणतीति । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घयाव्० ' (१।४।४५) सिलोपः । षण्डे अनेन ट् ।
[भवाञ् शेते] भवत् । प्रथमा सि । शेषं (१।३।८) सूत्रवत् । 'तवर्गस्य०' (१।३।६०) न० अ० ।
[महान् षण्डे] महत् । प्रथमा सि । 'ऋदुदितः' (१।४।७० ) नोऽन्तः । ' अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । ‘दीर्घङ्याव्०’ (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) तलोपः ।
[भ] अण (२५९) रण ( २६० ) वण (२६१ ) - व्रण ( २६२ ) वण (२६३) 'भण शब्दे' (२६४) भण् । भृशं पुनः पुनर्वा भणसि । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यप्र० । 'सन् - यश्च' (४|१|३) द्विर्वचनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org