________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[संकृतिः] संकरणं = संकृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० ति । गर्गादिपाठसामर्थ्यात् सडभावोऽप्रधानवर्णाश्रयो विधिरिति न भवति ।
५२
[ उपस्कर्त्ता ] 'डुकंग करणे' (८८८) कृ, उपपूर्व० । 'उपाद् भूषा समवाय-प्रतियल-विकार-वाक्याऽध्याहारे' (४|४|१२ ) सट् । उपस्करोतीति उपस्कर्त्ता । 'णक-तृचौ ' ( ५।१।४८ ) तृच्प्र० । शेषं पूर्ववत् ।। छ ।
लुक् ||१३|१३||
[लुक् ] लुक् प्रथमा सि । 'दीर्घड्याव्० ' (१।४।४५) सिलोपः । 'धुटस्तृतीयः' (२।१।७६) क०ग० ।
'विरामे वा' (१।३।५१) ग० क० ।
[ सस्कर्त्ता ] सटि सति अनेन मस्य लुक् ।
[सस्कर्त्तुम्] अत्र सटि सति अनेन मकारलोपः ॥ छ ॥
तौ मुमो व्यञ्जने स्वौ ।।१।३।१४।।
[तौ] तद् प्रथमा औ । 'आ द्वेरः ' (२।१।४१) ५० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२ ) औ ।
[मुमः ] मुश्च म् च = मुम्, तस्य = मुमः ।
[व्यञ्जने] व्यञ्जन सप्तमी ङि । 'अवर्णस्ये० ' (१।२।६) ए० ।
[ स्वौ ] स्व प्रथमा औ । 'ऐदौत् सन्ध्यक्षरैः' (१।२1१२ ) औ. ।
[चंक्रम्यते, चङ्क्रम्यते] 'क्रमू पादविक्षेपे' (३८५) क्रम् । कुटिलं क्रामति । 'गत्यर्थात् कुटिले' (३|४|११ ) यड्प्र० → य । ‘सन्-यङश्च' (४।१।३) क्रम् सउ द्विर्वचनु । 'व्यञ्जनस्याऽनादेर्लुक्' ( ४।१।४४ ) अनादिव्यञ्जनलोपः । ‘क-डश्व-ञ्’ ( ४।१।४६ ) क० च० । 'मुरतोऽनुनासिकस्य' (४।१।५१) मुरागमः । अनेन ।
[चंचूर्यते, चञ्चर्यते] 'चर भक्षणे च' (४१०) चर् । भृशं पुनः पुनर्वा चरति' । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) यङ्ग्प्र० । 'सन्-यडश्च' (४।१।३) द्वित्वं । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘चरफलाम्' (४।१।५३) मोन्तः । ति चोपान्त्याऽतोऽनोदुः' (४।१।५४) अ० उ० । 'भ्वादेर्नामिनो दीर्घो वर्व्यञ्जने' ( २।१।६३) दीर्घः ।
[ दंद्रम्यते, दन्द्रम्यते] अम (३९२) 'द्रम गतौ' (३९३) द्रम् । भृशं पुनः पुनर्वा द्रमति । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यङ्प्र० । ‘सन्-यङश्च' (४।१।३) द्वित्वं । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'मुरतोऽनुनासिकस्य' ( ४।१।५१ ) मोन्तः ।
[बंभण्यते, बम्भण्यते] अण (२५९) रण ( २६० ) - वण (२६१) व्रण (२६२) - बण (२६३) - 'भण शब्दे' (२६४) भण् । अत्यर्थं भणति । शेषं पूर्ववत् साध्यः ।
[यंयम्यते, यय्यँम्यते] 'यमूं उपरमे' (३८६) यम् । भृशं पुनः पुनर्वा यमति ( यच्छति ) । शेषं पूर्ववत् साध्यः ।
[वंवम्यते, वव्वँम्यते] 'टुवमू उद्गिरणे' (९६९) वम् । भृशं पुनः पुनर्वा वमति । शेषं पूर्ववत् साध्यः । अनेन मस्य वकारोऽनुनासिकीभूतः सकलः । परगमने सत्यपि पूर्वस्य वस्याऽनुनासिको लभ्यते । यतो तुल्यस्थानप्रस्तावे य-ल-वानां सानुनासिक-निरनुनासिकभेदौ प्रतिपादितौ ।
[वहंलिह: गौः, वहल्लिहः गौः ] 'लिहींक् आस्वादने' (११२९) लिह, वहपूर्व० । वहं लेढीति वहंलिहः । 'वहा ऽभ्राल्लिहः '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org