SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ || अहम् ।। ॥ अथ प्रथमाऽध्यायस्य तृतीयः पादः ॥ तृतीयस्य पञ्चमे ।।१।३।१॥ [तृतीयस्य त्रि । त्रयाणां पूरणस्तृतीयः । 'त्रेस्तृ च' (७।११६६) तीयप्र० त्रि० → तृ०, तस्य-तृतीयस्य, षष्ठी डस्, ‘टा-इसोरिन-स्यौ' (१।४।५) स्य । [पञ्चमे] पञ्चन् । पञ्चानां पूरणः = पञ्चमः । 'नो मट्' (७।१।१५९) मटप० → म । 'नाम्नो नोऽनहः' (२।१।९१) नलोपः । सप्तम्येक० ङि । 'अवर्णस्ये०' (१२१६) ए० । वेति पदान्त इति अनुनासिक इति च अनुवर्तते । प्रथम-द्वितीय-तृतीयादित्वं वर्गस्यैव धर्मो नाऽन्यस्य इति सूत्रेऽनुक्तस्याऽपि वर्गस्य तृतीय-पञ्चमौ गृहोते । स्थान्यासन्नः किमित्युच्यते-यद्वर्गसत्कस्तृतीयस्तद्वर्गसत्क एव अनुनासिक इत्यर्थः । [वाडवते, वाग्ङवते] 'वचं भाषणे' (१०९६) वच् । वक्तीत्येवंशीला बाक् । 'दिद्युद्-ददृद्-जगज्जुहू-वाक०' (५।२।८३) क्विपप्र०-वाच निपात्यते । 'अप्रयोगीत्' (१1१1३७) चिप्लोपः । प्रथमा सि । 'दीर्घयाब्०' (१।४।४५) सिलोपः । 'च-जः क-गम्' (२।१।८६) च० → क० । 'धुटस्तृतीयः' (२।१७६) क० → ग० । अनुनासिका ड-अ-णन-मा इत्युक्ताः । उंङ् (५८९) - कुंङ् (५९०) - गुंङ् (५९१) - घुइ (५९२) - "दुइ शब्दे (५९३) हु । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४१७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) ओ । ‘ओदौतोऽवाब' (१।२।२४) अव् । अनेन. । [वाजकारः, वागञकारः] ञ एव = अकारः । 'वर्णाऽव्ययात् स्वरूपे कारः' (७।२।१५६) कारप्र० । वाचो अकारः । [वाङणकारीयति, वागणकारीयति] ण एव = णकारः । 'वर्णा-ऽव्ययात् स्वरूपे कारः' (७१२४१५६) कारप्र० । णकारमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) अ० → ई० । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२०१११३) अलोपः । [वाङ्नयति, वागनयति] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेों नः' (२।३।९७) नी । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गुणः ए । 'एदैतोऽयाय' (११२।२४) अय् । [वाड्मधुरा, वाग्मधुरा वाग चासौ मधुरा च = बाग्मधुरा । प्रथमा सि । 'दीर्घयाब०' (१।४।४५) सिलोपः । [षणनयाः, षड्नयाः] षष(ड्) च ते नयाश्च = षण्णया:(?) (षण्नयाः) । [तन्त्रयनम, तद्नयनम्] तद् अग्रे नयनम् (१।२।२३) सूत्रवत् । [ककुम्मण्डलम्, ककुमण्डलम्] ककुभां मण्डलं = ककुमण्डलं । 'धुटस्तृतीयः' (२११३७) भ० → ब० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy