________________
४४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
अञ्वर्गात् स्वरे वोऽसन् ।।१२।४०॥ [अजवर्गात् न ञ् = अञ्, 'नञत्' (३।२।१२५) न० → अ० । अञ् चासौ वर्गश्च = अवर्गः, तस्मात् = अवर्गात, पञ्चम्येक० डसि, 'डे-डरयोर्याऽऽतौ' (१।४।६) डसि० -- आत् ।
[स्वरे] स्वर सप्तम्येक० ङि । 'अवर्णस्ये०' (१।२।६) ए. ।
वोऽसन] वः इति प्रथमान्तमादेशपदम् । 'असक भुवि' (११०२) अस् । अस्तीति सन् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'श्नाऽस्त्योर्मुक्' (४।२।९०) धातोरकारस्य लोपः । न सन् = असन् । 'नजत्' (३।२।१२५) न० → अ० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । दीर्घड्याव्' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
[कुडडवास्ते, क्रुड्डु आस्ते] 'क्रुञ्च च-कौटिल्याल्पीभावयोः' (१०२) क्रुश् । क्रुञ्चतीति क्रुङ् । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१८९) चकारलोपः । 'युजञ्च-क्रुञ्चो नो ङः' (२।१७१) न० → ० । अग्रे उ अव्यउ मांडियइ । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । 'आसिक उपवेशने' (१११९) आस । वर्त० ते । अनेन उकारस्य वकारे कृतेऽपि 'हस्वान् ङ-ण-नो द्वे' (१३।२७) द्वित्वं कीजइ ।
[किम्वावपनम्, किमु आवपनम्] किम् अग्रे उ 'डुवपी वीजसन्ताने' (९९५) वपु, आङपूर्व०' । आवपते = आवपनं । 'अनट्' (५।३।१२४) अनटप्र० → अन ।। छ ।।
अ-इ-उवर्णस्यान्तेऽनुनासिकोऽनीदादेः ।।१।२।४१।। [अ-इ-उवर्णस्यान्तेऽनुनासिकोऽनीदादेः] अश्च इश्च उश्च = अयव, अयूनां वर्णः = अइउवर्णस्तस्य = अइउवर्णस्य, षष्ठी डस्, ‘टा-डसोरिन-स्यौ' (१।४।५) स्य । अन्त सप्तम्येक० डि, 'अवर्णस्ये०' (१।२।६) ए । पिरामे इत्यर्थः । अनुनासिक प्रथमा सि । ईत् आदिर्यस्याऽसौ ईदादिः । न ईदादिरनीदादिः । 'अन् स्वरे' (३।२।१२९) अन् । तस्य = अनीदादेः, षष्ठी डस्, 'डित्यदिति' (१।४।२३) इ० → एकारु । 'एदोद्भ्यां इसि-डसो रः' (१।४।३५) र० । 'रः पदान्ते०' (१३५३) विसर्गः ।
[साम, साम] सामन् २, प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । 'नाम्नो नोऽनहः' (२१११९१) नलोपः । [खट्वाँ, खट्वा] खट्वा २, प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । [दधिं, दधि] दधि २, प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः ।। [कमारौं , कुमारी] कुमारी २, प्रथमा सि । 'दीर्धड्याब' (१।४।४५) सिलोपः ।
[वृक्षण, वृक्षेण वृक्ष, तृतीया टा । 'टा-डसोरिन-स्यौ' (१।४।५) टा० → इन | 'अवर्णस्ये०' (१।२।६) ए । 'रपृवर्णान्नो०' (२।३।६३) न० → ण० । सर्वत्र अनेनाऽनुनासिकाऽऽगमः ।
[अग्नी] अग्नि, प्रथमा औ । ‘इदुतोऽस्त्रेरीदूत्' (१।४।२१) इवर्णस्य औकारेण सह ई० ।। [वायू] वायु, प्रथमा औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) उवर्णस्य औकारेण सह ऊ० ।
[अमू] अदस्, प्रथमा औ । 'आ द्वेरः' (२११४१) स० → अ० । 'लुगस्यादेत्यपदे (२।१११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द० → म० । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ । 'मादुवर्णोऽनु' (२११४४७) ऊ० ।
[अमी] (१।२।३५) सूत्रवत् ॥ छ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां बृहद्वृत्तौ प्रथमस्याऽध्यायस्य द्वितीयः पादः समाप्तः ॥छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org