SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३७ अथ प्रथमाऽध्यायस्य द्वितीयः पाद: ।। mmmmmmmmmmmmm..३७ ओदौतोऽवाव् ||१२।२४।। [ओदौतोऽवाव] ओच्च औच्च = ओदौत्, तस्य = ओदौतः, षष्ठी डस् । अव् च आव् च = अवाव्, प्र० औ । सूत्रत्वात् लोपः । [लवनम्] 'लूगश् छेदने' (१५१९) लू । लूयते = लवनम् । 'अनट्' (५।३।१२४) अनट्प० → अन । 'नामिनो गुणोऽक्डिति' (४१३१) गुणः ओ । अनेन अव् । प्रथमैक० सि । 'अतः स्यमोऽम्' (११४१५७) अम् । 'समानादमोऽतः' (१।४।४६) अकारस्य लोपः । [लावकः] ‘लूग्श् छेदने' (१५१९) लू । लुनातीति लावकः । ‘णक तृचौ' (५।१।४८) णकप० → अक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । अनेन आव् । प्रथमैक० सि. । [पटवोतुः] पटु ‘आमन्त्र्ये' (२१२॥३२) सि । 'हस्वस्य गुणः' (१।४।४१) सिना सह गुणः ओ । ओतु प्रथमैक० सि । अनेन अव् । [गावौ] गो प्र०औ । 'ओत औ' (१।४।७४) औ । अनेन आव् । [गोशृङ्गम्] गवां शृङ्गं = गोशृङ्गम् । [नौकाष्ठम नावः काष्ठं = नौकाष्ठम् ।।छ।। य्यक्ये ।।१२।२५।। [य्यक्ये] य् सप्तम्येक० ङि । न क्यः = अक्यः, 'नात्' (३।२।१२५) न० → अ०, तस्मिन् = अक्ये, सप्तम्येक० ङि, ‘अवर्णस्येवर्णादिनैदोदरल' (१।२।६) ए० । [गव्यति] 'गम्यूँ गतौ' (३९६) गम् । गच्छतीति गौः । 'धु-गमिभ्यां डोः' (उणा० ८६७) डिद् ओप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादेर्लोपः । गामिच्छतीति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अकारस्य लोपः । अनेन अव् । [गव्यते] गौरिव आचरतीति । 'क्यङ्' (३।४।२६) क्यड्स० → य । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अकारस्य लोपः । [नाव्यति] 'णुदत् प्रेरणे' (१३७०) णुद् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नुद् । नुद्यते = प्रेर्यते वायुना इति नौः । 'ज्ला-नुदिभ्यां डौः' (उणा० ८६८) डिद् औप० । 'डित्यन्त्यस्वरादेः' (२।१११४) अन्त्यस्वरादेर्लोपः । नावमिच्छतीति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अकारस्य लोपः । अनेन आव् । [नाव्यते] नौरिवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यम० → य । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।११११४) अकारस्य लोपः । अनेन आव् । [लव्यम्] 'लूगश् छेदने' (१५१९) लू । लूयते = लव्यम् । ‘य एच्चातः' (५1१।२८) यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गुणः ओ । अनेन अव् । प्रथमैक० सि । [पव्यम्] 'पूग्श् पवने' (१५१८) पू । पूयते = पव्यम् । ‘य एच्चातः' (५।१।२८) यप्र० । शेषं 'लव्यम्' वत् । [अवश्यलाव्यम्] अवश्यं लूयतेऽवश्यलाव्यम् । 'उवर्णादावश्यके' (५।१।१९) घ्यणप्र० → य । ‘कृत्येऽवश्यमो लुक्' (३३२११३८) अवश्यंशब्दस्य मकारस्य लोपः । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः औ । अनेन आव । प्रथमैक० सि । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy